पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

रुद्रपारम्यनिरूपिकेैव भासेत । सर्व व्याख्यानाधिकरणश्रुतप्रकाशिकायां सुबहु समालोड्य नारायणपारन्यैदम्पर्यमस्याः समदर्शीति तदनुसारि भाष्यम् , तदुपरिप्रवृत्तमस्मत्परिष्कारञ्चा अवधाय पठतामपेयादेवेयं विमतिरिति नात्र किञ्चिद् विचारणीयमस्ति । अथ तथैव शिवप्रस्ताववती अथर्वशिखा समयेञ्जि । अथ नारायणपारम्यप्रदर्शिनी कोषीतकी। तत्र ग्रन्थाक्षरमुद्रणादिषु परित्यक्तोऽभ्युपनिषद्भागः श्रीमाष्याक्युक्ततया यथाचितं परिष्कारेण सह प्राकाश्यं प्रापि । अथ प्रकृतिपुरूषेश्वरभेदप्रदर्शनेन षड्विंशतया परिगणव्य ब्रह्मादिस्था- वरान्तान्तर्यामी भगवत्पदपरिभाषितो नारायण एव निरूप्यत इति मन्त्रिकोपनिषदुपादीयत । अथ नारायणस्यैव पारस्यमन्तर्यामित्वञ्च मुक्तकण्ठं बोधयन्ती सुबालोपनिषत् । एतद्भाष्यकर्तारस्तु श्रीमाष्यादिश्रीभगवद्रामानुजस्वामिपादानुगृहीतग्रन्थरत्नविशदव्याख्यानविख्यातकीर्तयः श्रीमन्निगमान्नमहादेशिक सात्कृत स्वकृतग्रन्थस्वतनयतल्लजाः श्रीमद्वात्स्य- वरदाचार्यशिष्याः श्रीवादिहंसाम्बुवाहाचार्यसतीर्थ्याः श्रीहारीतकुलतिलक श्रीवाग्विजयिसूनवः श्रीवेदव्यासापरनामधेयाः तत्रभवन्तः श्रुतप्रकाशिकाचार्या इति प्रसिद्धाः श्रीसुदर्शनभट्टारकाः । परन्तु भागधेयहीनानामस्माकं सुबालोपनिषदि षष्ठरखण्डप्रभृति एतद्भाष्यं न कुत्राप्युपलब्धिपदमास् । दैवदुर्विपाकात् त्वरितमेव दिवं गतैरेभिरेतावदेव भाष्य भाषितं भवेदित्यपि संभावनीयमस्ति । एतावता षष्ठखण्डप्रभृति भाष्यानुपलम्ममात्रेण सुबालोपनिषदपि तावत्येवेति मत्वा तदनुरुपं मुद्रणं पूर्वैः कृतमासीत् । श्रीभगवद्रामानुजस्वामिपाद दाहृतानि एतदुपनिषद्वाक्यानि सर्वाणि अव्याख्यातभाग एव सन्तीति विमृश्यान्वेषणेन सुखमेव सर्वा सुबालोपनिषदधिगता, येन निश्चितमासीत् उपनिषदियं न पञ्चखण्डात्मा, किंतु षोडशखडात्सेति । अत एवममपितानामेकादशानां खण्डानां परिष्कारमपि यथार्हं विधाय मुद्रणमिह निरवर्ति । अथ सुबालोपनिषदिव शुक्लयर्जुवेदनिविष्टः अग्निरहस्यनाम्नः शतपथब्राह्मणान्तर्गतस्य भागस्यैकदेशः ब्रह्मसूत्रेषु पूर्वविकल्पाविकरणप्रवर्तिनविचारतया श्रीमद्रारामानुज- स्वामिवरविरचितभाष्यभूषितः समवति । तत्रापि प्राचीनकोशे यथावस्थितं मूलपाठमनुपलब्धवतां बढशभ्रंशनेन बहुत्र भाष्यमूलयोः संकरव्यतिकरादिना च अयथामुद्रणमापतितमिति यथायथं सर्वोऽप्येशः परिष्कृतः । न केवलमेतावत् : तदधिकरणप्रस्तुतः पूर्वापरश्रुतिसंदर्भोऽपि सौकर्याय समयोजि । vii