पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

50 अथ महोपनिषदादिकमकृतभाष्यमपि अस्मत्तीर्थकरसमादृतमवश्याध्येयतया संकलितम् । परं तत्र प्राचीनाचार्यप्रदर्शितया रीत्या सा प्रति पाठो नोपलभ्यत इति यावदुपलवग्रहणेन तत्रापि विसंवादबहुलोत्तरभागोपेक्षणेन च महोपनिषन्मुद्रणे व्यधायि । तथाहि श्रीमन्निगमान्तमहादेशिकैः सच्चरित्रग्क्षायां महोपनिषद्वचनानि बहून्युदाहतानि । यथा --सुदर्शनपाञ्चजन्यधारणविधौ ---- “आथर्वणमहोपनिषदि ब्रह्मसूक्ते --- दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । सव्ये तु शङ्खं बिभृयादिनि ब्रह्मविदो विदुः " इति : । अत्र ब्रह्मसूक्तमिति महोपनिषन्मध्यगताः, 'सहस्रशीर्षा · इत्याद्या एकोन विंशतिर्मन्त्राः । तत्रोपरितना अष्टौ मन्त्राः, · सर्वस्य वशिनम् ' इत्याद्याः । तत्र, 'दक्षिणे तु भुजे ' इति पञ्चमो मन्त्रः । - एक एव नारायण ' इति महोपनिषदाद्यो मन्त्रः ।" इति । __एवं महोपनिषन्मन्त्राणां बहुपाञ्चरात्रपरिगृहीततया परमं प्रामाण्यं प्रदर्शयद्भिरुच्यते- " अत्रापि ब्रह्मसूक्तपरमात्मसूक्ताभ्यां महोपनिषत्पठितमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्तमेव परिगृहीतम् , शब्दतोऽर्थतश्च प्रत्यभिज्ञानात् " इनि: अथ भगवद्रामानुजमुनिभिरिव भगवद्यामुनमुनि -- यादवप्रकाशाचार्यतदनुयायिनारायणार्यादिभिरपि महोपनिषत् आदरेणोदाहृतेत्यदर्शि । तथा ऊर्ध्वपुण्ड्धारणविधौ --- “तत्र तावत् महोपनिषदि - " धृतोर्ध्वपुण्ड्रः परमेशितारं नारायणं साङ्ख्ययोगाधिगम्यम् । ज्ञात्वा विमुच्येत नरः समन्तः संसारपाशैरिह चैव विष्णुम् " इति : उपरि भगवन्निवेदितोपयोगाधिकारे च. " श्रूयते हि महोपनिषदि, विष्णुनाऽत्तमश्नन्ति ; विष्णुना पीतं पिबन्ति ; विष्णुना घ्रातं जिघ्रन्ति, विष्णुरसिनं रसयन्तिः तस्माद् विद्वांसो विष्णूपसृतं भक्षयेयुः " इति ।