पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

QU!:24र 5 15355.1 अंशो नानाव्यपदेशादन्यथा चापि दाशकतिवादित्वमधीयत एक ' इति ब्रह्मास्त्रे आश्रवणिका , 'ब्रह्म दासा ब्रह्म दाशा ब्रह्मेमे कितवा उन ' इनि अधीयते इति यदुक्तम् , तदिदमाथर्णब्रह्मसूक्तम् इति शाङ्करसूत्रभाष्योऽवगम्यते । तच्च ब्रह्मसूक्तं प्रागुक्तमहोपनिषदन्तर्गतब्रह्मसूक्तम् , अन्यद्वेति विमृश्यम् । इदमेव चेत् -- तदा महोपनिषदो भगवद्वादरायणपरिगृहीतत्वम् , दृश्यमानमहोपनिषदः पाठान्यथात्वञ्च स्पष्टं भवति। यथैवमुपनिषदाम् , तथा तत्रैव छान्दोग्यगायत्रीविद्यादौ साक्षितयोदाह्रियमाण स्वमन्त्रस्य मुद्गलोपनिषद्विष्णुपुराणभागवतादिव्याख्यातस्य सर्ववेदनिविष्टस्य सर्वपिमानितस्य सर्वेः ब्रह्मयज्ञादावनुसंधीयमानम्य श्रिय पतेः पूजने विनियुक्तस्य सर्वपापप्रशमनस्य पुरुषसूक्तस्यावश्यज्ञेयतामालक्ष्य, तत्रापि भाष्यमुपलब्धं सर्वग्रन्थानुस्यूतमङ्गलश्लोकादि. लिङ्गाभावेऽपि यथोपलब्धे श्रीरङ्गरामानुजमुनिवरविरचितमित्यभ्युपगम्य तन्मुद्रणम यस्मिन् उपनिषत्सम्पुटे आदृतमासीत् । तदनन्तरमौचित्याद् द्वयोपनिषदपि ।। एवं सर्ववेदान्तग्रन्थमूलभूतानामुपनिषदां मुद्रणं यथावन्निर्वर्तितवानेष वृषशैलविहारी विनतजनप्रत्यूहपरिहारी कलिकल्मषहारी सर्वदैवतमस्मदैवत श्रीनिवास स्वचरण- नलिनसेवासाम्राज्ये सर्वमपि जनमभिषेत्तुमुद्युक्तः स्वरूपरूपगुणविभवादिसर्वपारमार्थ्य- प्रतिष्ठापनकामो भगवद्रामानुजस्वामिपादप्रवर्तित प्राचीनसमीचीनसिद्धान्तस्थापक स्वावतार भूतकवितार्किकसिंहसर्वतन्त्र स्वतन्त्र श्रीमद्वेदान्ताचार्यविरचितैर्विशिष्टैर्ग्रन्थरत्नैः सह प्राच्या- वाच्यप्रशस्तपन्थप्रकाशनादिकमत्यनुगृह्रन् अवतारसाफल्यं संपाद्य सर्वतो विजयतामिति संप्रार्थयामह ।। जयतु निखिलरक्षादीक्षितः श्रीनिवासो जयतु मतमनर्घं लक्ष्मणार्योपदिष्टम् । जयतु निगमचूडादेशिकग्रन्थजातं जयतु जगदशेषं भक्तिधीवृत्तभव्यम् || उत्तमूर -ति. वीरराघवाचार्यः (उभयवेदात LI AYOREA PARYA TRUPAT HT