पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.१. हरिः ओम् ॥ ब्रह्मवादिनो बदन्ति । किं कारणं ब्रह्म कुतः स्म जाताः जीवाम केन क्व च संप्रतिष्ठा'। अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥१॥ 1. सुप्रतिष्ठा. आरभ्यते । विद्यास्तुत्यर्थमाख्यायिकामाह ब्रह्मवादिनो वदन्तीति । ब्रह्मवदनशीला मुनयो वक्ष्यमाणप्रकारेण वदन्ति स्मेत्यर्थः । किमिति । हे ब्रह्मविदः ! जगतः कारणं ब्रह्म किन्देवतारूपम् ? कस्माद्ब्रह्मणोऽस्माकं जन्म स्थितिश्च संप्रतिष्ठाशब्दितो लयश्च । केन वा ब्रह्मणा अधिष्ठिताः तत्परतन्त्रास्सन्तः अनसि ऊत गोसंघवत् जिहासितेषु दुःखरूपेषु जन्मसु विशिष्टामवस्थितिमनुसृत्य वर्तामहे । सुप्रतिष्ठेति पाठेऽप्यमेवार्थः । (१) 1. स्तुत्याम् . 2. दशोपनिषद्भाष्यग्रन्थेष्विव एतद्भाष्येपि तालकोशे प्रतीकलेशधारणं विना पूर्णव्याख्येयभागग्रहणमेव लक्ष्यते । अथापि लाघवाय प्रायो मुद्रितग्रन्थकोशरीत्यनु- सरणम् । 3. ओत. ब्रह्मवादिनः सर्वविधकारणत्वेन घुष्यमाणं ब्रह्म किम्भूतमिति निर्धारयितुं संभूय विचिन्त्य कालस्वभावकर्मजीवादीनामतथात्वं तदन्यस्य कस्यचित् तथात्वस्वीकारे कस्याप्यवद्यस्य विरहञ्चाऽऽलक्ष्य तादृशं ब्रह्म स्वीचक्रुः, यादृशस्य ग्रहण न दुष्यति । तदेव तपःप्रभावदेवप्रसादभावितपरमार्थज्ञानः श्वेताश्वतरः ब्रह्मविन्महर्षिसंघजुष्टं ब्रह्म परममुत्तमाश्रमिभ्यः प्रोवाच । तदिह प्रतिपाद्यते ब्रह्मवादिन इत्यादिना । वदन्ति स्मेति भूतकालादरणं भूतस्यवोपजीवनार्हत्वात् । श्रुतो लट्प्रयोगो वादस्यास्य सार्वकालिकत्वव्यक्तये। किं कारणं ब्रह्मेति । जगत्कारणं तावत् ब्रह्मेति सर्वे प्रतियन्ति | तच्च जन्मस्थितिलयरूपसर्वकारणम् | न केवलमेतावत् । स्थितेरिव प्रवृत्तेरपि कारणम् । तद् ब्रह्म किम्भूता ? किं निर्गुणं सगुण वा? सगुणमपि कीहशगुणम् ? तथा गुणातिरिक्तद्रव्यात्मकवशेष वधुरं तद्विशिष्टं वा ? विशिष्टमपि कियद्विशष्टम् ! वैशिष्टयमपि किरूपम्? तथा एवम्भूतमिदं कि ब्रह्मरुद्राद्यन्तर्भूतम् उत सर्वजीवविलक्षणं ब्रह्मरुद्रादिहेतुभूतं किञ्चित् दैवतमित्येवं ब्रह्मवादिनो मीमांसन्ते इति भावः । वर्तामहे इत्यस्य प्रवर्तामहे इत्यर्थे उत्तरार्ध प्रवृत्तिकारणत्वमपि ब्रह्मणो वक्तुं प्रवृत्तमिति ध्येयम् । अथवा जीवामेत्यैहिकं सुखदुःखमि - जीवन- मुक्तम् ; सुखतरेषु वर्तामह इत्यनेन स्वर्गनरकयोर्व्यवस्थया वृत्तिरुच्यते । तत्र वृतुधात्वर्थस्य व्यवस्थया महाभेदविक्षया कियाविशेषणतया व्यवस्थामिति कर्मत्वोपपादने क्लेशमनुचिन्त्य, अनुसत्येनि ल्यबन्तस्याच्याहार. कृतः । अत्र अनेककिंशब्दप्रयोगः, कार्यभेदेन कारणभेदोऽपि कि स्यादिति शङ्काव्यञ्जनाय; एककार्यकारणत्वेन संभाव्यमानस्याप्यन्यकार्यकारणत्वासंभवे कथं ब्रह्मत्वमित्याक्षेपाविर्भावाय च : (१)