पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.१.] श्वेताश्वतरोपनिषत् कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माऽप्यनीशः सुखदुःखहेतोः ॥ २ ॥ ननु कारणं ब्रह्म सिद्धवत्कृत्य किन्देवतारूपमिति प्रश्न एवानुपपन्नः । तस्यैवानभ्युपगन्तव्यत्वात् । लोके हि कालज्ञाः कालमेव सर्वकारणमाचक्षते । लोकायतिकास्तु स्वभावमेव हेतुमाचक्षते । मीमांसकास्तु नियतिलक्षणं कर्मैव हेतुं मन्यन्ते । अपरे अहेतुकत्वलक्षणं यादृच्छिकत्वम् । अपरे पञ्च भूतानि । प्रकृतिं केचित् । पुरुष केचिदाचक्षते । तेषामन्यतमः पक्षोऽस्तु । किं ब्रह्मकारणवादाभ्युपगमेनेत्याशङ्क्याह काल इति । कालादीनि कारणमित्येतन्न युक्तिसहम् । दोषाणां बहूनां स्फुरणात् । चिन्त्यम् न निश्चेतुं शक्यम् ; अचेतनानां चेतनस्य वा प्रत्येकं हेतुत्वासंभवादित्यर्थः । ननु एषां संयोगो हेतुर्भवितुमर्हति । न तेषां संयोजकाभावः शङ्कितव्यः । तेषां मध्ये आत्मनश्चेतनस्य संयोजकस्य सद्भावेन संयोगसंभवादित्याशङ्क्य-आत्मनः स्वातन्त्र्ये सुखभोक्तृत्वमेव स्यात् ; न दुःखभोक्तृत्वम् । अतः सुखदुःखानुभवितुजीवस्यापि न नियन्तृत्वं संभवतीत्याह संयोगः -- हेतोः । उक्तोऽर्थः । 1. भविष्यति । ___ कालज्ञाः ज्योतिर्विदः । स्वभावमेव हेतुमिति । न्यायकुसुमाखली सर्वार्थसिद्धौ चैतद्विस्तरः । यदृच्छया भवतीत्यस्य, अकस्माद् भवति, न कस्मादपि भवतीत्यर्थात् तत्र कस्य चित् हेतुतया निर्देशायोगात् पूर्वोत्तरभङ्गीं विहाय, ( 'यदृच्छां हेतु' मित्यनिर्दिश्य ) अहेतुकत्वलक्षणं यादृच्छिकत्वमिति भङ्गयन्तरादरणम् । पुरुषं केचिदिति । कर्मणा योगेन च पूर्वपूर्वकल्पे सिद्धिमधिगतवतामुत्तरोत्तरकल्पे भूम्यन्तरिक्षस्वर्गनरकादिसर्वनिर्माणनिपुणी संभाष्यत इति कपिलहिरण्यगर्भादिषु परदेवताबुद्धिं बिभ्रतामभिमानः । अत्र योनिशन्दः कारणपर्याय: कालादौ प्रत्येकमभिसंबध्यत इति परेषां व्याख्यागतिः । इह तु पूर्वमन्त्रादेव कारणमित्यनुषङ्गात् योनिपदं प्रसिद्ध प्रकृतिपरं स्वीकृतम् ।