पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.१. न त्वात्मभावादित्यत्र तुशब्द एवार्थः । आत्मसद्भावात् संयोगः संभवतीत्येतन्नैवेत्यर्थः । ब्रह्मणोऽप्यपरिणामिनः उपादानत्वञ्च'न संभवतीति भावः । (२) 1. न च न संभवति. आत्मभावादित्यस्यार्थद्वयम्। जीवात्मसद्भावादिति, परमात्ममात्रसद्भावादिति च। जीवात्मनः कारणत्वमिव परमात्मन: कारणत्वमपि तेन निरन्तं भवति । कथं हि तस्य जन्मलयादिसर्व कारणत्वम् , अपरिणामितयोपादानत्वानर्हत्वादिति । तदाह ब्रह्मणोऽप्यपरिणामिन इति । एवञ्च पूर्वार्धे पुरुषशब्दोऽप्युभयपर इति वा, तत्र प्रकारवाचिना इतिशब्देन परमात्मग्रहणममिमत मिति वा ग्राह्यम् । तथा च कालादीनां पृथगपृथग्वा कारणत्वं दुस्साधमित्युक्तं भवति । तत्र कालस्तावत् नोपादानम् । इदानीजायते, तदानीं नश्यतीति जन्मनाशावच्छेदकतया प्रतीतावपि क्व च संप्रतिष्ठेत्युक्तलयाधारत्वादिरूपोपादानत्वायोगात् । कार्याभिन्नं हि कारणमुपादानम् । न च कालस्य घटपटादिना कार्येण सहैवयप्रतीतिरानुभषिको । वर्तमानत्वादिरूपस्य कालस्य सर्वत्र विशेषणतयैव स्फुरणात् । अखण्डः कालः कश्चित् कारणमिति चेत्-तर्हिं ततः सर्वदा सर्वकार्योत्पत्तिः प्रसज्यते । अथ स्वभावः । स किं कार्यस्य स्वभावः उत कारणस्य ? नाद्यः । कार्य हि स्वपूर्वकालवर्ति यदपेक्षते, तत् कारणम् । तत्र स्वमेव स्वस्य कारणं न भवति आत्माश्रयादिति स्थिते, का कथा स्वगतो भावः स्वस्य कारणमिति । अथ कारणस्य स्वभाव इति, तर्हि कारणमन्यन्निर्देष्टव्यम् । अथ सत्कार्यवादात् कार्यकारणैक्यात् स्वात्मको भावः पदार्थ: कारणमित्यर्थ इति चेत् स एव कः । घटस्य मृदादिः; पटस्य तन्त्वादिरिति चेत् - तस्याचेतनस्य कथं स्वतन्त्र्येण कारणत्वम् । जीवाम केन, सुखेतरेषु वर्तामहे इत्युक्तं चेतननिरूपितं कारणत्वमचेतने कथं घटते ? अथ नियतिः । नियतिः = नियमः अवश्यम्भावः । अवश्यम्भावादवश्यं भवतीत्युक्तौ उत्पतिरेवोत्पत्तौ कारणमुक्तं स्यात् । अथ यतोऽत्रश्यं भवति, सा नियति:-सा पक्षान्तरभूता का नाम? पुण्यपापात्मकमेति लोकप्रसिद्धमेवेति चेत्-क्षणभुङ्गुरं तत् कालान्तरभाविने फलाय कथमलमिति कथ्यताम् । व्यापारद्वारेति चेत् -कि कर्मणोऽपि कश्चिद् व्यापारः ? स कुत्रत्यः? न कर्मणि, तस्य नष्टत्वात् । न भूतेषु ; तेषामपि नश्वरत्वात् । भूतानां कारणत्वपक्षस्य स्वीकारप्रसङ्गात् । न कर्तरि पुरुषकारणत्वपक्षपरिग्रहापत्तेः । न चाचेतना धर्मभूता नियतिः धर्मिभूतचेतनाचेतनसर्वोत्पत्तिलयस्थानं च स्वतन्त्रय भवितुमर्हति । न च यदृच्छापक्षः । तथा हि सति कारणं किमपि नेत्येवोक्तं भवति । तदेतत् अन्नपानाद्यर्थिनः कृषिनिर्माणादिसार्वलौकिक प्रवृत्तिव्याहतमनुन्मत्तः को नु वक्तुमर्हति ?