पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१००

पुटमेतत् सुपुष्टितम्
९६
[अग्निमुखसंबन्धिविशेषविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

 औपासनहोमे त्वापूर्विकमेव तन्त्रम् । अत्र यद्यप्यतिदिष्टो विशेषविहितो वा द्रव्यसंस्कारो नास्ति तथाऽपि नासंस्कृतेन द्रव्येण जुहुयादितिशास्त्रान्तरेऽसंस्कृतद्रव्यहोमनिषेधाच्छ्रौतहोमोपदिष्टो मन्त्रवर्जं यथायोग्यं द्रव्यसंस्कारः कार्य एव । एवं श्रौतहोमोपदिष्टो होमसाधनसंस्कारोऽपि । स च निष्टपनमार्जनात्मकः । हस्तेन होमे सव्यहस्तेन दक्षिणहस्तस्य परिमार्जनम् । आज्येनोपासनहोमपक्ष आज्यसंस्कारो गृह्योक्तो मन्त्रवर्जं श्रौतो वा कार्यः । परिस्तरणपरिषेकावपि कार्यौ । अस्मिन्कल्प आहुतिग्रहणप्रयोजन[१]मङ्गुल्युत्तरपार्श्वेन होमसिद्धिरेव । वैश्वदेव इतरतन्त्रनिवृत्तिः पूर्ववदेवात्रापि । शास्त्रान्तरप्रोक्तेषु चर्वतिरिक्तद्रव्यसाध्येषु कर्मसु त्वाघारवत्तन्त्रमापूर्विकं तन्त्रं वेति यथाचारं व्यवस्थितं ज्ञेयमिति दिक् ।

इत्यग्निमुखप्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां प्रथमं प्रकरणम् ॥ १ ॥



  1. ग. घ. ङ. जनं हस्ताग्रेणात्र न होमः किंतु हस्तोत्तरपार्श्वेनेवेति द्रष्टव्यम् । वै ।