अनेकाहुतिके होमे विग्राहं होम ईरितः ।
यत्र स्रुवाहुतिविधिस्तत्र नाऽऽसादयेत्स्रुचम् ॥ १३ ॥
गृह्ये स्रुवाहुतिविधावपि दर्व्येव कीर्तिता ।
[१]द्विस्त्रिर्गृहीतादिहोमे स्यात्स्रुवोऽप्युभयत्र तु ॥ १४ ॥
ग्रहणार्थं स्रुवस्यापि कर्तव्यं सादनं त्विह ।
दर्व्याः स्रुचो वा संमार्गात्पूर्वं संमार्ग ईरितः ॥ १५ ॥
श्रौतस्रुवस्येव भवेत्संमार्गो मन्त्रवर्जितः ।
संमार्गदर्भाधानात्प्राक्चित्तहोमो यदाऽऽपतेत् ॥ १६ ॥
तदा संस्कृत्य चिर्त्ताथमाज्यं तेन हुतिं चरेत् ।
निर्वापकाले चित्तं चेत्तदाऽऽज्यं त्वेकमेव हि ॥ १७ ॥
चित्तार्थमथ कर्मार्थं नात्रोत्पत्तिः पृथग्भवेत् ।
श्रौतोक्तरीत्या होमेऽपि गृह्योक्तैवाऽऽज्यसंस्कृतिः ॥ १८ ॥
अग्नेः परिस्तृतेरूर्ध्वं नैव कार्या परिस्तृतिः ।
न कार्यं समिदाधानमिध्माधानादनन्तरम् ॥ १९ ॥
प्रायश्चित्तस्य कालस्तु निमित्तानन्तरं स्मृतः ।
प्रधानहोमतः प्राग्वा बौधायनमुनिस्मृतेः ॥ २० ॥
प्रायश्चित्तविशेषो न यत्र प्रोक्तस्तु तत्र वै ।
समस्ताभिर्व्याहृतिभिरेकाहुतिरुदीरिता ॥ २१ ॥
भवेद्दर्व्या स्रुचा वेयमाहुतिर्न स्रवेण तु ।
एतदेव स्मृतं सर्वप्रायश्चित्तं हि याज्ञिकैः ॥ २२ ॥
यत्र होमस्त्वदृष्टार्थं विहितो न भवेद्यदि ।
सर्वाभिधानकं प्रायश्चित्तं तत्र तदाचरेत् ॥ २३ ॥
यत्र होमस्त्वदृष्टार्थं विहितोऽपि भवेद्यदि ।
सर्वाभिधानकं चित्तं तत्रापि च समाचरेत् ॥ २४ ॥
पूर्वमालेखनमतमाश्मरथ्यमतं परम् ।
पात्रानुक्तौ चित्तहोमे श्रौते स्रुग्घोमसाधनम् ॥ २५ ॥
गार्ह्ये भवेच्चित्तहोमे दर्विका होमसाधनम् ।
संख्यानुक्तौ सकृद्ग्राहो द्रव्यानुक्तौ घृतं स्मृतम् ॥ २६ ॥
कर्महोमस्य कर्ता यः स एवात्र प्रकीर्तितः ।
दाने कर्ता पतिः प्रोक्तः पत्नी स्यात्तदसंनिधौ ॥ २७॥