पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०३

पुटमेतत् सुपुष्टितम्
[कर्मसंधानार्थप्रायश्चित्तानां]
९९
संस्काररत्नमाला ।
( संग्रहकारिकाः )
 

एवं त्यागेऽपि विज्ञेयं कात्यायनमुनिस्मृतेः।
अनाहिताग्नेश्चित्तेष्टिस्थाने स्युः पाकधर्मतः ॥ २८ ॥
सर्वत्र चरवः शास्त्रान्तराज्ज्ञेयं बुधैरिदम् ।
पूर्णाहुतिरशक्तौ स्यात्तत्प्रकारोऽधुनोच्यते ॥ २९ ॥
चतुर्वारं गृहीत्वाऽऽज्यमष्टवारमथापि वा ।
स्रुचि द्वादशवारं वा दर्विकायामथापि वा ॥ ३० ॥
उपोत्तमेनान्तिमेन सह वा ग्रहणेन तु ॥
अभिपूर्याऽऽज्येन तां तु स्वाहाशब्दसमन्वितम् ॥ ३१ ॥
चतुर्थ्यन्तं देवताया नाम प्रोक्त्वा तयाऽऽहुतिः ।
स्वाहान्ते तु बुधैर्देया पूर्णाहुतिरियं स्मृता ॥ ३२ ॥
पूर्णस्रुवेणात्यशक्तौ पूर्णाहुतिरुदीरिता ।
सर्वत्रानाज्ञातजपो वैष्णव्यृग्जप एव च ॥ ३३ ॥
समस्तव्याहृतीनां च जपः कार्यो विपश्चिता ।
द्रव्यस्य विहितस्यात्राभावश्चेत्स्यात्स्वरूपतः ॥ ३४ ॥
स्त्रीकर्तव्यः प्रतिनिधिः प्रायश्चित्तं न चात्र तु ।
अर्थद्रव्यविरोधेऽर्थो बलीयान्संप्रकीर्तितः ॥ ३५ ॥
तत्र स्वरूपसत्तायामपि प्रकृतकर्मणः ।
प्रधानकार्याशक्तत्व एष न्यायः प्रकीर्तितः ॥ ३६ ॥
विरोधे द्रव्यगुणयोर्बलवद्द्रव्यमीरितम् ।
प्रधानकार्यशक्तत्वे गुणसंपादनाय न ॥ ३७ ॥
उपादानं प्रतिनिधेस्तत्रैष न्याय ईरितः ।
लोपे स्वराक्षरादीनामाभिरित्याहुतिः स्मृता ॥ ३८॥
मन्त्रलोपे प्रोक्षणादिलोपे च व्यत्यये तथा ।
त्वं नः स त्वं न इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ ३९ ॥
यदि प्रधानयागात्प्राग्लुप्तस्य स्मरणं भवेत् ।
तदा चित्तोत्तरमनिष्पन्नार्थाङ्गस्य वै क्रिया ॥ ४० ॥
निष्पन्नार्थं यदाङ्गं चेच्चित्तमेव न तु क्रिया ।
उदाहरणमेतस्य ज्ञेयमिध्मेन्धनादिकम् ॥ ४१ ॥
आज्यभागोत्तरं मुख्याहुतितः प्राक्स्मृतिर्यदि ।
तदेध्ममनले दत्त्वा विपर्यासार्थचित्तकम् ॥ ४२ ॥