ऊर्ध्वं चेच्चित्तमेव स्यादिति सूत्रे निदानके ।
आज्यभागाद्यङ्गलोपे त्वं नः स त्वं न आहुती ॥ ४३ ॥
अकाले चेत्कृतं कर्म भवेद्यत्तस्य नैव तु ।
क्रमार्थं पुनरावृत्तिरित्युक्तं कठसूत्रके ॥ ४४ ॥
परिस्तरणदर्भाणां परिधीनां च बर्हिषः ।
इध्मोपवेषशुल्बानां दाहे च च्छेदने तथा ॥ ४५ ॥
मूत्राद्यैरुपघाते च सर्वथा च विनाशने ।
तज्जातीयं च तद्रूपं तत्प्रमाणं तथैव च ॥ ४६ ॥
आहृत्य तद्यथापूर्वं यथास्थानं निवेश्य च ।
तेन कर्म प्रकर्तव्यं नैवोपहतसंग्रहः ॥ ४७ ॥
द्वे त्वमग्ने अयाः प्राजापत्यर्चा च स्रुवाहुती ।
इध्मे न्यूना समिच्चेत्स्याद्यत्पाकत्नाहुतिं तदा ॥ ४८ ॥
हुत्वा संपादयेन्न्यूनमुक्तसंस्कारपूर्वकम् ।
अधिके त्वधिकं त्याज्यं भवेदत्रापि साऽऽहुतिः ॥ ४९ ॥
बहिरिध्मादिपतने स्थालीपाकादिकर्मसु ।
संस्थाप्य तूष्णीं स्वस्थाने जुहुयात्सर्वचित्तकम् ॥ ५० ॥
आधेयाग्न्युपघाते तु पुनस्त्वामन्त्रतः समित् ।
एतेनैवाऽऽहुतिस्त्वेका होतव्योपहतेऽनले ॥ ५१ ॥
यदा कदाचिदग्निश्चेत्स्वयं प्रज्वलितस्तदा ।
उद्दीप्यस्वेतिमन्त्राभ्यां द्वाभ्यामग्नौ समिद्द्वयम् ॥ ५२ ॥
प्रणीतानां प्रोक्षणीनां स्कन्दने पात्रपूरणम् ।
आपो हि ष्ठादिभिः कुर्यात्त[१]तमित्याहुतिस्ततः ॥ ५३ ॥
शोषे स्रावेऽप्येवमेव प्रायश्चित्तं प्रकीर्तितम् ।
समुत्सर्पेदायतनाद्बहिरग्निः स चेद्यदि ॥ ५४ ॥
पुनः प्रक्षेपणे योग्यस्तं धृष्ट्याऽऽदाय वै पुनः ।
स्वस्थाने व्याहृतीभिस्तं प्रक्षिपेत्तदनन्तरम् ॥ ५५ ॥
सर्वप्रायश्चित्तमनाज्ञातत्रयजपादि च ।
अध्वर्य्वाग्नीध्रहोतॄणां प्रयाजानां तथैव च ॥ ५६ ॥
अभावान्मा तम इति चित्तं नैतद्भवेदिह ।
अङ्गारो यद्यायतनात्पतितश्चेद्बहिः स च ॥ ५७ ॥