पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०५

पुटमेतत् सुपुष्टितम्
[कर्मसंधानार्थप्रायश्चित्तानां]
१०१
संस्काररत्नमाला ।
( संग्रहकारिकाः )
 

श्रौताग्नेर्लौकिकाग्नेर्वा सांनिध्याज्ज्ञायते नहि ।
कस्यानलस्यायमिति तदाङ्गारमुपेक्ष्य तम् ॥ ५८ ॥
सर्वाख्यचित्तं जुहुयादित्युक्तं द्विशतीकृता ।
श्रौताग्नावथ गृह्याग्नौ होतव्यं सर्वचित्तकम् ॥ ५९ ॥
निर्वापादूर्ध्वमाज्यं चेत्स्कन्देदुत्पवनात्पुरा ।
वरं दत्त्वा ब्राह्मणाय देवान्जनमगन्निति ॥ ६० ॥
एतैर्मन्त्रैः पञ्चभिर्यत्स्कन्नं तदनुमन्त्रयेत् ।
उत्पूयमानमाज्यं चेत्स्कन्देद्दत्त्वा तदा वरम् ॥ ६१ ॥
अजां गां वा प्रदत्त्वा च देवानित्यादि पूर्ववत् ।
स्कन्देदुत्पूतमाज्यं चेत्तदा यत्स्वगृहे भवेत् ॥ ६२ ॥
मुख्यं द्रव्यं प्रदत्त्वा तद्देवानित्यादि पूर्ववत् ।
गृहीताज्यस्कन्दने तु वरदानानुमन्त्रणे ॥ ६३ ॥
विधाय भूपतय इत्येतेन मनुना पुरः ।
स्कन्नाज्यस्य प्रकुर्वीत प्रादेशं तदनन्तरम् ॥ ६४ ॥
भुवनेति तु मन्त्रेण तस्य दक्षिणतो भवेत् ।
भूतानां पतय इति तस्य पश्चिमतो भवेत् ॥ ६५ ॥
भूतायेत्युत्तरे तस्योर्ध्वं तु व्याहृतिभिः स्मृतः ।
स्वाहान्ता मनवो ज्ञेया बुधैर्व्याहृतिभिर्विना ॥ ६६ ॥
स्कन्नोपरि ततो वारि सिञ्चेत्सं त्वेतिमन्त्रतः ।
प्रक्षिपेच्छुचिदेशस्थं चेद्यज्ञस्येतिमन्त्रतः ॥ ६७ ॥
अभिमन्त्र्याशुचिस्थं चेद्गृह्णीयात्स्थानतः पुनः ।
हविःस्कन्देऽप्येष एव प्रायश्चित्तविधिः स्मृतः ॥ ६८ ॥
स्कन्दनं स्रुवपर्याप्तस्याधिकस्यापि वा यदि ।
एतत्स्कन्दनचित्तं तु तदा ज्ञेयं विचक्षणैः ॥ ६९ ॥
स्रुवपर्याप्ततो न्यूनस्कन्दे सर्वाभिधं भवेत् ॥
द्रवद्रव्येषु सर्वेष्वप्येवमेव प्रकीर्तितम् ॥ ७० ॥
सर्वेषु कठिनद्रव्येष्वङ्गुष्ठपरुषोऽधिकम् ।
स्कन्नं यदि भवेत्पूर्वं चित्तमूने तु सर्वकम् ॥ ७१ ॥
नैव चित्तं भवेत्स्कन्दे बर्हिर्भस्मानलादिषु ।
अग्निक्षिप्ताहुतेः स्कन्दो बहिष्परिधि चेद्भवेत् ॥ ७२ ॥
संकृष्याञ्जलिना तां तु जुहुयान्मा यजेत्यतः ।
स्वस्यैव कर्तृताऽत्र स्यान्नाऽऽग्नीध्रस्तदसंभवात् ॥ ७३ ॥