पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११४

पुटमेतत् सुपुष्टितम्
११०
[प्रायश्चित्तसंग्रहकारिकाः]
भट्टगोपीनाथदीक्षितविरचिता--

पिण्डयज्ञात्यये सप्तहोतृहोमः प्रकीर्तितः ।
औपासनाग्नेर्गमन उपलेपादि पूर्ववत् ॥ ९६ ॥
आहृत्य श्रोत्रियागारात्प्रतिष्ठाप्य हविर्भुजम् ।
विवाहे यदि निर्मन्थ्यो मथितव्यस्तदाऽनलः ॥ ९७ ॥
आऽन्यस्माद्धोमकालात्स्त्री नाश्नीयादथवा गृही ।
उपोषणाशक्ततायां विध्यन्तरमथोच्यते ॥ ९८ ॥
उपलेपादिकं वह्निस्थापनान्तं तु पूर्ववत् ।
पात्राणि च समासाद्य कुर्यात्प्राग्वत्पवित्रके ॥ ९९ ॥
संस्कृत्य प्रोक्षणीः पश्चात्पात्राणां प्रोक्षणं ततः ।
दर्वीं संमृज्य संस्कृत्याऽऽज्यं प्रागुक्तविधानतः ॥ २०० ॥
परिस्तीर्यानलं पश्चात्परिषेकं समाचरेत् ।
अलंकारं प्रकुर्वीताभ्याधानं समिधस्तथा ॥ १ ॥
अयाश्चेत्याहुतिं हुत्वा विसृज्य स्तरणानि तु ।
कृत्वोत्तरं ततः सेकं होमं नित्यं समाचरेत् ॥ २ ॥
अपोढे वर्तमाने तु मुख्योऽग्निर्यदि गच्छति ।
अपोढाग्नेरेकदेशं मुख्याग्न्यायतने ततः ॥ ३ ॥
निधाय सर्वचित्तं तु जुहुयाद्भुवआहुतिम् ।
शान्तिके पौष्टिके चैव गृह्यानुक्ते तु कर्मणि ॥ ४ ॥
अग्नेरनुगतिश्चेत्स्यात्तद्भस्म प्रक्षिपेद्बहिः ।
अनन्तरं स्थण्डिलस्योपलेपोल्लेखनादिकम् ॥ २०५ ॥
कृत्वा संस्थाप्य तत्राग्निमाज्यसंस्कृतिमाचरेत् ।
जुहुयात्तेन सर्वाख्यचित्तं संस्थापितेऽनले ॥ ६ ॥
अयाश्चेत्यपि होतव्यमिति केचिद्बुधा जगुः ।
औपासनाग्न्यनुगतावेवाया इति चित्तकम् ॥ ७ ॥
इत्येतस्मिन्मते नैतद्भवेदुपनयादिषु ।
किं त्वेतेष्वपि विज्ञेयं सर्वाख्यं चित्तमेव हि ॥ ८ ॥
गायत्र्या उपदेशात्प्राङ्मुख्यहोमादनन्तरम् ।
उपनायेऽग्निनाशश्चेदग्निं संस्थाप्य पूर्ववत् ॥ ९ ॥
हुत्वा मुख्याहुती तत्र जुहुयात्सर्वचित्तकम् ।
उपदेशोत्तरं नाशे स्यात्सर्वाभिधमात्रकम् ॥ २१० ॥
पाणिग्रहणतः प्राक्चेद्विवाहेऽनलनाशनम् ।
तदा मुख्याहुतीरेव नायाश्चेत्यादि चित्तकम् ॥ ११ ॥