पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११६

पुटमेतत् सुपुष्टितम्
११२
[प्रायश्चित्तसंग्रहकारिकाः]
भट्टगोपीनाथदीक्षितविरचिता--

द्वयोरतिक्रमे वैश्वानरपाथिकृतौ चरू ।
तृतीयाद्यतिपत्तौ तु स्यात्तत्र पुनराहितिः ॥ २६ ॥
क्षेपकत्वे तु खण्डस्य स्थालीपाकातिपातने ।
श्रौत एव प्रकार: स्यात्स इदानीं प्रवक्ष्यते ॥ २७ ॥
आरब्धौ पार्वणस्थालीपाकौ चेदतिपन्नकौ ।
स्यातां तदा पाथिकृतं स्थालीपाकं समाचरेत् ॥ २८ ॥
भवेतां यद्यनारब्धावेतौ चेदतिपन्नकौ ।
तदा वैश्वानरस्थालीपाकं कुर्याद्विचक्षणः ॥ २९ ॥
प्रथमस्य प्रयोगस्य संकल्पोत्तरमक्रिया ।
चेद्विभ्रेषनिमित्तं तु प्रकर्तव्यं चरुत्रयम् ॥ २३० ॥
स्थालीपाकमकरणे तत्प्रकारः प्रदर्श्यते ।
कर्मणो गौणकालश्चेत्ततस्तस्याप्यनुष्ठितिः ॥ ३१ ॥
प्रकारान्तरमप्यत्राधुनाऽतिपतने ब्रुवे ।
आरब्धयोर्द्वयोः पातः स्याच्चेत्पाथिकृतश्चरुः ॥ ३२ ॥
ऊर्ध्वयोरपि पातश्चेत्तदा वैश्वानरश्चरुः ।
स्वकाले यद्यनारम्भश्चेत्स्थालीपाकयोर्द्वयोः ॥ ३३ ॥
विभ्रेषार्थं तदा कार्यं स्थालीपाकत्रयं बुधैः ।
पर्वणि व्रतलोपे तु कुर्याद्व्रातपतं चरुम् ॥ ३४ ॥
पर्वण्यार्त्याऽश्रुपाते तु कुर्याद्व्रातभृतं चरुम् ।
पवित्रस्य विनाशे तु स्यात्पवित्रवते चरुः ॥ २३५ ॥
हिरण्यस्य विनाशे तु स्याद्धिरण्यवते चरुः ।
स्वकीयगृहदाहे तु कुर्यात्कामवते चरुम् ॥ ३६ ॥
होममौपासनं दर्शस्थालीपाकादिकं तथा ।
जुहुयात्प्रातरस्नातश्चेत्तदा वारुणश्चरुः ॥ ३७ ॥
ऋत्विक्स्याद्यदि सुस्नातोऽस्नातश्चाथ स्वयं भवेत् ।
तदाऽपि वारुणः कार्यो नात्यन्तातुर एष तु ॥ ३८ ॥
विज्ञेयं प्रातरेवेदं सायं स्यात्सर्वचित्तकम् ।
अदने सूतकान्नस्य भवेत्तन्तुमते चरुः ॥ ३९ ॥
भार्या युग्मप्रसूर्गौर्वा स्यात्तदा मारुतश्चरुः ।
यमौ जातौ पुमांसौ चेत्तयोरेकोऽपि वा पुमान् ॥ २४० ॥
वैश्वानरो मारुतश्चेत्येवं केचिद्बुधा जगुः ।
एवंरूपाणीति सूत्राद्गृह्योक्तोऽप्याद्भुतो विधिः ॥ ४१ ॥