पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२१

पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तमन्त्रणामृष्यादि]
११७
संस्काररत्नमाला ।

योर्द्वयोर्मन्त्रयोः सोम ऋषिः, मिन्दवाञ्जातवेदा अग्निः प्रथमस्य देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च । प्रथमस्य गायत्री द्वितीयस्यानुष्टप् । हविरुत्सेकनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ यन्म आत्म० स्वाहा" मिन्दवते जातवेदसेऽग्नय इदं० । "ॐ पुनर० क्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० । उद्वयं तमस इत्यस्याग्निः सूर्योऽनुष्टप् । उदु त्यं चित्रमित्यनयोः सोम ऋषिः, सूर्यो देवता । प्रथमस्य यागत्री द्वितीयस्य त्रिष्टुप् । यागान्वाधानमध्योत्पन्नसूर्यग्रहणनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । यागान्वाधानमध्योत्पन्नसूर्यग्रहणनिमित्तकप्रायश्चित्तार्थे सूर्योपस्थाने विनियोग इत्युपस्थानविनियोगवाक्ये विशेषः । "ॐ उद्वयं त० त्तम स्वाहा" सूर्यायेदं० । "उदु त्यं जा० सूर्य स्वाहा" सूर्यायेदं० । "ॐ चित्रं देवा० पश्च स्वाहा । सूर्यायेदं" ।

 ([१]उद्वयं०, उदु त्यं०, चित्रं० ), नवो नवो, यमादित्या इत्यनयोर्विश्वे देवाश्चन्द्रमास्त्रिष्टुप् । यागान्वाधानमध्योत्पन्नचन्द्रग्रहणनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । यागान्वाधानमध्योत्पन्नचन्द्रग्रहणनिमित्तकप्रायश्चित्तार्थे चन्द्रोपस्थाने विनियोग इत्युपस्थानविनियोगवाक्ये विशेषः । "नवो नवो भ० मायुः स्वाहा" चन्द्रमस इदं० । "ॐ यमादित्या अ० गोपाः स्वाहा" चन्द्रमस इदं० ।

 भूमिर्भूमिमित्यस्य सौत्रमन्त्रस्य वामदेवो भूमिरनुष्टुप् । भिन्नमृन्मयपात्राभिमन्त्रणे विनियोगः--

 "ॐ भूमिर्भूमिमगान्माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम्" ।

 प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता दैवी गायत्री छन्दः, पात्रभेदननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ स्वाहा" परमात्मन इदं० । अग्नय इदमिति वा ।

 मनो ज्योतिरिति मनस्वतीसंज्ञकस्याग्निर्मनो ज्योतिस्त्रिष्टुप् । निरूढाग्निविनाशनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ मनो ज्योतिर्जु० घृतेन स्वाहा" मनसे ज्योतिष इदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रधानाहुतिस्विष्टकृदाहुतिसंसर्गनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।


  1. धनुश्चिह्नान्तर्गत सर्वेष्वपि पुस्तकेष्वधिकम् ।