पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२७

पुटमेतत् सुपुष्टितम्
[शास्त्रान्तरोक्तानि प्रायश्चित्तानि]
१२३
संस्काररत्नमाला ।
( ग्रहयज्ञः )
 

हविषो दोष उत्सेकः सूर्यचन्द्रग्रहस्तथा ।
पात्रभेदो निरूढाग्नेर्विनाशो वीर्यपातनम् ॥ ३ ॥
होममध्येऽशनं होमानारम्भः समये स्वके ।
पिण्डयज्ञात्ययो वह्निपत्न्यृत्विक्स्वामिमध्यतः ॥ ४ ॥
द्विपादाद्यागमोऽन्वाहित्युत्तरं वा कृतिर्यजेः ।
एतेषां तु भवेत्प्रायश्चित्तं शास्त्रान्तरीयकम् ॥ ५ ॥

 श्रौतोक्तप्रायश्चित्तानामत्र प्राप्तिः श्रौतमध्ये गार्ह्याम्नानबलात् । अविरुद्धत्वाच्छास्त्रान्तरोक्तानां प्राप्तिः । सर्वप्रायश्चित्तमात्रं वा सर्वत्र ।

इति संस्काररत्नमालायां प्रायश्चित्तप्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां द्वितीयं प्रकरणम् ॥ २॥

अथ तृतीयं प्रकरणम् ।


ग्रहमखः ।

अथ ग्रहमखं वक्ष्ये श्रीदं कर्मसमृद्धिदम् ।
नवग्रहात्मा विघ्नेशस्तेन तुष्टोऽस्तु सर्वदा ॥ १ ॥

 अथ ग्रहमखः । स च नित्यनैमित्तिककाम्यभेदेन त्रिविधः । शुभवारत्रिजन्मनक्षत्रायनविषुवोपरागादिषु नित्यः । उपनयनादिकर्मप्रारम्भेषु नैमित्तिकः । विपदपगमसंपदादिकामनासु काम्यः । तत्र काम्ये मण्डपकुण्डादिकं नित्यम् । नित्यनैमित्तिकयोरनित्यम्--

"नित्यं नैमित्तिकं हित्वा सर्वमन्यत्समण्डपम्" इति मात्स्योक्तेः ।

 यदा स्थण्डिलं तदा वेदिरेव न मण्डपः, तथैव शिष्टाचारदर्शनादिति प्रयोगपारिजाते ।