पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२८

पुटमेतत् सुपुष्टितम्
१२४
[ग्रहयज्ञः]
भट्टगोपीनाथदीक्षितविरचिता--
(कुण्डमण्डपयोन्यादीनां लक्षणानि)
 

 मण्डपलक्षणं हेमाद्रौ मात्स्ये--

"गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ।
रुद्रायतनभूमौ वा चतुरश्रमुदक्प्लवम् ॥
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ।
तस्य द्वाराणि चत्वारि कर्तव्यानि विचक्षणैः" इति ।

 उत्तरपूर्वेणेति तृतीया सप्तम्यर्थे । उदक्प्लवमुदक्क्रमनिम्नम् । अष्टौ वा हस्तान्कुर्यादित्यत्र मण्डपार्थमिति शेषः । कुर्यात्स्वी कुर्यादित्यर्थः । दशहस्तमष्टहस्तं वा मण्डपं कुर्यादिति फलितोऽर्थः । विधानत इत्यनेन भूमिशोधननवभागकरणादिः सर्वा क्रिया गृह्यते । तस्य मण्डलस्य ।

 कुण्डं तु स्कान्दे--

"नवग्रहमखे कुण्डं हस्तमात्रं समन्ततः ।
चतुरश्रमधोहस्तं योनिवक्त्रं समेखलम् ।
चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता" इति ।

 अधोहस्तमधोभागे हस्तपरिमितखातम् । योनिवक्त्रं योनिवक्त्रवत् । वक्त्रं कण्ठः, तद्वद्विस्तारवत् । इदं कुण्डं मण्डपपक्षे तदीशानभाग उदीच्यां वा कार्यमिति हेमाद्रिः । मध्य इति केचित् ।

 योनिर्मात्स्ये--

"वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलिविस्तृता ।
कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ॥
गजोष्ठसदृशी तद्वदायता छिद्रसंयुता ।
मेखलोपरि सर्वत्र अश्वत्थदलसंनिभा" इति ॥

 तदङ्गुलोच्छ्रायवत्, पार्थयोर्विस्तृतेत्यर्थः । गजोष्ठसदृश्यश्वत्थदलसदृशी वेति विकल्पः ।

 सा च योनिः पश्चिमतः कार्या--

"पश्चिमे मध्यभागे तु योनिं कुर्याद्विधानतः" इति गर्गोक्तेः ।

 कुण्डाभावे स्थण्डिले होमः कार्यः--

"नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत्" इति शारदातिलकात् ।

 अत्र द्वयोर्ग्रहणेन काम्ये[१] न स्थण्डिलमित्यर्थादुक्तं भवति ।


  1. ग. घ. ङ. म्ये स्थ ।