मात्स्ये--
"तस्य चोत्तरपूर्वेण स्थण्डिलं हस्तमात्रकम् । |
तस्य कुण्डस्य । स्थण्डिलं वेदिः । वप्रो मेखला । वितस्तिर्द्वादशाङ्गुला, तया परिमितो य उच्छ्रायस्तेन संमितं संबद्धमित्यर्थः । द्विरङ्गुलोच्छ्रित इत्यत्र सुच्प्रयोग आर्षः । उपरि प्रथमवप्रोपरि । सर्वेषां वप्राणाम् ।
काम्येऽग्निचक्रमावश्यकम् । तच्च ज्योतिर्निबन्धे--
"सैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः । |
शुक्लप्रतिपदमारभ्यात्र गणनेति सांप्रदायिका ज्योतिर्विदः । एकया [१]सहिता [२]सैका गणितासु तिथिष्वधिकैका तिथिर्गणयितव्येत्यर्थः[३] । अत्रैकवचनं द्वित्रादितिथिविषये जात्यभिप्रायं ज्ञेयम् । वारैर्युता[४] कृता[५]प्तेत्येतद्द्वयं तिथिविशेषणम् । कृतशब्देन कृतादियुगचतुष्ट[६]यबोधितचतुःसंख्या लक्ष्यते । तेन चतुःसंख्याया लाभः । आप्ता [७]भाजिता । गुणास्त्रयः । अभ्रं शून्यम्[८] । शश्येकः । युग्मं द्वौ । अन्यत्स्पष्टम् ।
एतदपवादस्तत्रैव--
"नित्ये नैमित्तिके कर्मण्यग्निचक्रं न विद्यते" इति[९] । |
अग्निचक्रं न विद्यते, अग्निचक्रापेक्षा नास्तीत्यर्थः ।
अथाऽऽहुतिपातो ज्योतिषे--
"तरणिविद्भृगुभास्करिचन्द्रमाः कुजसुरेज्यविधुंतुदकेतवः । |