पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३१

पुटमेतत् सुपुष्टितम्
[ग्रहपीठरचनाप्रकारः]
१२७
संस्काररत्नमाला ।

 याम्यां रक्तवर्णचूर्णेन चतुर्यूकाधिकाङ्गुलत्रयात्मकभुजत्रयेणैकयूकापञ्चयवसहितद्व्यङ्गुललम्बकं त्रिकोणं दक्षिणाग्रं भौमस्य पीठम् ।

 ई(ऐ)शान्यां पीतचूर्णेन चतुर्यवान्तरं चतुरङ्गुलदीर्घमुदक्संस्थं भुजसंज्ञकं रेखाद्वयं समाग्रं लिखित्वैतद्रेखाद्वयोदग्गताग्रयोरन्तराले तदग्रसंगतामन्तरालप्रदेशप्रादेशपरिमितामेकां रेखां लिखित्वा पौरस्त्यभुजोत्तरदिग्गताग्रात्पुरतोऽग्रसंलग्नां चतुर्यवात्मिकां प्राचीं रेखां विधाय तथैव पाश्चात्यभुजोत्तरदिग्गताग्रात्पश्चादग्रसंलग्नां चतुर्यवात्मिकां [१]प्रतीचीं रेखां विधाय भुजद्वयमध्यत उत्तर ऋजुतिर्यक्सूत्रं दत्त्वा भुजद्वयमध्यत[२] उत्तरे लिक्षापञ्चकयूकाद्वयसहितपञ्चयवाधिकाङ्गुलद्वयं नीत्वा तत्र चिह्नं कृत्वा चतुर्यवात्मकप्राक्प्रत्यग्रेखाबहिष्प्रान्तावारभ्य चिह्नपर्यन्तं षड्यवाधिकद्व्यङ्गुलात्मकं भुजद्वयं कुर्यात्, इत्येवं बाणाकारं पीठं बुधस्य ।

 उत्तरस्यां पीतचूर्णेन पूर्वपश्चिमभुजद्वयं त्र्यङ्गुलं दक्षिणोत्तरभुजद्वयं द्व्यङ्गुलमित्येवं दीर्घचतुरश्रपीठं गुरोः ।

 पूर्वस्यां श्वेतचूर्णेन पञ्चयूकासप्तयवैकाङ्गुलात्मकव्यासार्धन [३]कर्काटकेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य यूकात्रययवद्वयसहितद्व्यङ्गुलमिताः पञ्च ज्याः कृत्वा शिष्टं मार्जयेत्, इत्येवं पञ्चकोणपीठं शुक्रस्य । अथवा यूकाषट्कयवषट्कसहितद्व्यङ्गुलात्मकव्यासार्धेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य यूकाषट्कयवषट्कसहितत्र्यङ्गुलपरिमितप्रदेशे चिह्नं कृत्वा तत आरभ्यान्येषु प्रदेशेष्येवमेव चिह्नानीत्येवं पञ्च चिह्नानि कर्काटकेन कृत्वा यस्मात्कस्मादेकस्माच्चिह्नादनन्तरं चिह्नं विहाय तृतीयचिह्नसंलग्नं यूकाद्वययवत्रयाधिकाङ्गुलपञ्चकपरिमितं बाहुं कृत्वैवमेवेतरांश्चतुरो बाहून्संपाद्य कोणाधस्थान्वाहून्वृत्तं च मार्जयेदित्येवमुत्कारसंज्ञकं पञ्चकोणं शुक्रस्य पीठम् ।

 पश्चिमायां कृष्णचूर्णेन लिक्षाचतुष्टययूकाचतुष्टययवचतुष्टयाधिकचतुरङ्गुलात्मकव्यासार्धेन वृत्तं कृत्वा वृत्तसंगतां यूकापञ्चकयवत्रयाधिकषडङ्गुलमितां ज्यां कुर्यादित्येवं प्रत्यग्ज्यं षडङ्गुलक्षेत्रफलं शनेः पीठम् । अथवा लिक्षाषट्कयवपञ्चकाधिकाङ्गुलद्वयात्मकव्यासार्धेन वृत्तं कृत्वा यूकाषट्कयवपञ्चाधिकाङ्गुलत्रय[४]परिमितां वृत्तरेखासंलग्नां ज्यासंज्ञकां रेखां दद्यादित्येवं द्व्यङ्गुलक्षेत्रफलं शनेः पीठम् ।

 नैर्ऋत्यां नीलचूर्णेन चतुरङ्गुलपरिमितचतुर्भुजं चतुरश्रं कृत्वा तस्य चतुर


  1. ङ. प्राची ।
  2. ड. ध्य उ ।
  3. ङ. कर्कोट
  4. ङ. यमि ।