पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३३

पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१२९
संस्काररत्नमाला ।
( आचार्यादिवरणम् )
 

ग्रहमख प्रयोगः।

 अथ प्रयोगः--कर्ता स्नात्वा नित्यकर्म निर्वर्त्य [१]मौहूर्तिकोक्ते काल आचम्य प्राणानायम्य देशकालौ संकीर्त्य करिष्यमाणामुककर्मणि ग्रहानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहयज्ञं करिष्य इत्युपनयनादिकर्मप्रारम्भेषु नैमित्तिकग्रहयज्ञसंकल्पः । त्रिजन्मनक्षत्रायनविषुवोपरागेषु त्रिजन्मनक्षत्रे ग्रहयज्ञं करिष्ये । अयने विषुव उपरागे वा ग्रहयज्ञं करिष्य इति नित्यग्रहयज्ञसंकल्पः । विपदपगमसंपदादिकामनासु विपदपगमार्थं संपत्प्राप्त्यर्थं पुष्टिप्राप्त्यर्थमित्येवं तत्तत्कामनानुसारेण काम्यग्रहयज्ञसंकल्पः[२] । ततः संभारान्संभरेत् । तत्र नित्यनैमित्तिकयोर्यथोक्तवस्तूनि तदभावे प्रतिधिनिरूपाणि वा यथासंभवं संपादयेत् । काम्ये तु प्रतिनिध्यभावाद्यथोक्तवस्तून्येव[३] । संकल्पात्पूर्वं वा संभारसंभरणम् ।

 ततो गणपतिपूजनादिनान्दीश्राद्धान्तं कृत्वाऽऽचार्यादिवरणं कुर्यात् । अमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशाखाध्या[४]य्यमुकशर्माऽहममुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणमस्मिन्ग्रहयज्ञ आचार्यत्वेन त्वां वृण इति विधिज्ञं कर्मकुशलं स्वशाखाविदं सदाचारिणं ब्राह्मणं पाणिना पाणिं संस्पृश्य वृणुयात् । त[५]द्धस्ते फलादि दद्यादित्याचारः ।

 ततस्तं संपूज्य प्रार्थयेत्--

"आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत" इति ।

 ततो ब्रह्माणं वृत्वा संपूज्य--

"यथा चतुर्मुखो ब्रह्मा स्वर्गे लोके पितामहः ।
तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव [६]द्विजोत्तम" इति तं[७] प्रार्थयेत् ।

 ततः सदस्यं वृत्वा संपूज्य--

"भगवन्सर्वधर्मज्ञ सर्वधर्मभृतां वर ।
वितते मम यज्ञेऽस्मिन्सदस्यो भव सुव्रत" । इति[८] तं प्रार्थयेत् ।

 ततो होमानुसारेणर्त्विजो वृ[९]त्वा संपूज्य[१०]--

"अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया ।
सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम्" इति तान्प्रार्थयेत् ।


१७
 
  1. ग. मौहूर्तिके । घ. ङ. ज्योतिर्विदुक्ते ।
  2. घ. ड. ल्पः । तत्र ।
  3. घ. ङ. व । त
  4. क. ध्याय्यमुकप्र ।
  5. ग. ततस्तद्ध ।
  6. घ. ङ. महीसुर ।
  7. ग. ब्रह्माणं ।
  8. ग. ति सदस्यं संप्रार्थ्य त ।
  9. ग. वृणुयात् । ततस्तान्स ।
  10. ज्य प्रार्थयेच्च । अ ।