नमो विश्वामित्रमावाहयामि' इति वज्रस्य पूर्वे विश्वामित्रम् । 'ॐ कश्यपाय नमः कश्यपमावाहयामि' इति शक्तेराग्नेय्यां कश्यपम् । 'ॐ जमदग्नये नमो जमदग्निमावाहयामि' इति दण्डस्य दक्षिणे जमदग्निम् । 'ॐ वसिष्ठाय नमो वसिष्ठमावाहयामि' इति खड्गस्य नैर्ऋत्यां वसिष्ठम् ।'ॐ अत्रये नमोऽत्रिमावाहयामि' इति पाशस्य पश्चिमेऽत्रिम् । 'ॐ अरुन्धत्यै नमोऽरुन्धतीमावाहयामि' इत्यङ्कुशस्य वायव्यामरुन्धतीम् । इत्यृषीन् ।
'ॐ ऐन्द्र्यै नम ऐन्द्रीमावाहयामि' इति विश्वामित्रस्य पूर्वं ऐन्द्रीम् । 'ॐ कौमार्यै नमः कौमारीमावाहयामि' इति कश्यपस्याऽऽग्नेय्यां कौमारीम् । 'ॐ ब्राह्म्यै नमो ब्राह्मीमावाहयामि' इति जमदग्नेर्दक्षिणे ब्राह्मीम् । 'ॐ वाराह्यौ नमो वाराहीमावाहयामि' इति वसिष्ठस्य नैर्ऋत्यां वाराहीम् । 'ॐ चामुण्डायै नमश्चामुण्डामावाहयामि' इति अत्रेः पश्चिमे चामुण्डाम् । 'ॐ वैष्णव्यै नमो वैष्णवीमावाहयामि' इत्यरुन्धत्या वायव्यां वैष्णवीम् । 'ॐ माहेश्वर्यै नमो माहेश्वरीमावाहयामि' इति गौतमस्योत्तरे माहेश्वरीम् । 'ॐ वैनायक्यै नमो वैनायकीमावाहयामि" इति भरद्वाजस्येशान्यां वैनायकीम् । इत्यष्ट शक्तयः ।
एता देवता आवाह्य, नर्य प्रजामित्यस्याग्निर्नर्योऽनुष्टुप् । एतासां देवतानां प्रतिष्ठापने विनियोगः । "ॐ नर्य प्रजां मे गोपाय । अमृत० प्रतिष्ठिताम्" इति प्रतिष्ठाप्य ([१] पदार्थानुसमयेन पूजयेत् । काण्डानुसमयपक्ष आवाहनादिषोडशोपचा
- ↑
धनुश्चिह्नान्तर्गतस्थाने क. ग. पुस्तकयोः-- "काण्डानुसमयेन पदार्थानुसमयेन वा सर्वा देवताः पूजयेत् ।
तत स्थण्डिलकरणादि । आधारवत्तन्त्रेणैतदुद्देशेन दश दश तिलाहुतीर्घृताहुतीर्वा जुहुयात् । एकैकां वाऽऽहुतिं जुहुयादिति संप्रदायः । मेर्वादीनां नमःशब्दरहितैः प्रणवादिचतुर्थ्यन्तैः स्वाहाकारान्तैर्नामभिर्होमः । ततस्तदुपरि वेदिपरिमित श्लक्ष्णक्षौम वस्त्रं प्रसार्य वस्त्रस्य समन्तादवध्यर्थं रेखां लिखित्वा तत एकैकाङ्गुलान्तरालास्तिस्रः समन्ताद्रेखा लिखित्वाऽवशिष्ट चतुरथ प्राञ्चमुदञ्चं च त्रेधा विभज्य तेषु नवकोष्ठेषु मध्ये सूर्यस्याऽऽग्नेय्यां सोमस्य दक्षिणस्यां भौमस्यैशान्यां बुधस्योत्तरस्यां गुरोः प्राच्यां शुक्रस्य पश्चिमायां शनेनैर्ऋत्यां राहोर्वायव्यां केतोरित्येवं क्रमेण मण्डलानि तत्तद्वर्णाक्षतै रचयेत् । अभावे विलिखेद्वा । अथवा यथा ग्रहमण्डलानां पत्रेषु निवेशो भवति तावत्प्रमाणं पत्रं सकर्णिकमष्टपत्रं पद्मं विलिख्य मध्ये सूर्यमितरेषु पत्रेष्वनन्तरोक्तक्रमेणाष्टौ ग्रहानावाहयेत् ।अथ मण्डलरचनाप्रकारः ।
प्रसारितवस्त्रस्य मध्ये रक्तवर्णचूर्णेन षड्यूकासप्तयवसहितैकाङ्गुलात्मकव्यासार्धेन कर्काटकेन सूर्यस्य वृत्तं पीठे विदध्यात् । आग्नेय्यां श्वेतचूर्णेन यूकाद्वयसप्तयवचतुरङ्गुलात्मकभुजचतुष्टयेन चतुरश्रं सोमस्य पीठम् । याम्यां रक्तवर्णचूर्णेन चतुर्यूकाधिकाङ्गुलत्रयात्मकभुजत्रयेणैकयूकापञ्चयवसहितद्व्यङ्गुललम्बकं त्रिकोणं दक्षिणाग्रमुत्तराग्रं वा भौमस्य पीठम् । ईशान्यां पीतचूर्णेन चतुर्यवान्तरं चतुरङ्गुलदीर्घमुदक्संस्थं भुजसंज्ञकं रेखाद्वयं समाग्रं लिखित्वैतद्रेखाद्वयोदग्गताग्रयोरन्तराले तदग्रसंगतामन्तरालप्रदेशपरिमितामेकां रेखां लिखित्वा पौरस्त्यभुजदक्षिणदिग्गताग्रात्पुरतोऽग्रसंलग्नां चतुर्यवात्मिकां प्राचीं रेखां विधाय तथैव पाश्चात्यभुजदक्षिणदिग्गताग्रात्पश्चादग्रसंलग्नां चतुर्यवात्मिकां प्रतीचीं रेखां विधाय भुजद्वयमध्यतो दक्षिणं ऋजुतिर्यक्सूत्रं दत्त्वा भुजद्वयमध्यतो दक्षिणे लिक्षापञ्चकयूकाद्वयसहितपञ्चयवाधिकद्व्यङ्गुलं मीत्वा(ग. नीत्वा ।) तत्र चिह्नं कृत्वा चतुर्यवात्मकप्राक्प्रत्यग्रेखाबहिष्प्रान्तावारभ्य चिह्नपर्यन्तं षड्यवाधिकद्व्यङ्गुलात्मकं भुजद्वयं कुर्यादित्येव बाणाकारपीठं बुधस्य । उत्तरस्यां पीतचूर्णेन पूर्वपश्चिमभुजद्वयं त्र्यङ्गुलं दक्षिणोत्तरभुजद्वयं द्व्यङ्गुलमित्येव दीर्घचतुरश्रपीठं गुरोः । पूर्वस्यां श्वेतचूर्णेन पञ्चयूकासप्तयवैकाङ्गुलात्मकव्यासार्धेन कर्कटेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य यूकात्रययवद्वयाङ्गुलद्वयमिताः पञ्च ज्याः कृत्वाऽवशिष्टं मार्जयेदित्येवं पञ्चकोणं शुक्रस्य । अथवा षड्यृकाषड्यवाङ्गुलद्वयात्मकव्यासार्धेन वृत्तं कृत्वा तस्मिन्वृत्ते पूर्वां दिशमारभ्य षड्यूकाषड्यवाङ्गुलत्रयपरिमितप्रदेशे चिह्नं कृत्वा तत आरभ्यान्येषु प्रदेशेष्वेवमेव चिह्नानीत्येवं पञ्च चिह्नानि कर्काटकेन कृत्वा यस्मात्कस्मादेकस्माच्चिह्नादनन्तरं चिह्नं विहाय तृतीयचिह्नसंलग्नं यृकाद्वययवत्रयाङ्गुलपञ्चकपरिमितं बाहुं कृत्वैवमेवेतरांश्चतुरो बाहून्संपाद्य कोणाधरस्थान्बाहून्वृत्तं च मार्जयेदित्येवमुत्कलसज्ञकं पञ्चकोणं शुक्रस्य पीठम् । पश्चिमायां कृष्णचूर्णेन लिक्षाचतुष्टययूकाचतुष्टययवचतुष्टयाधिकचतुरङ्गुलात्मकव्यासार्धेन वृत्तं कृत्वा वृत्तसंगतां यूकापञ्चकयवत्रयसहितषडङ्गुलमितां ज्यां कुर्यादित्येव प्राग्ज्यं षडङ्गुलक्षेत्रफलं शनेः पीठम् । अथवा लिक्षाषट्कयवपञ्चकसहिताङ्गुलद्वयात्मकव्यासार्धेन वृत्तं कृत्वा यूकाषट्कयवपञ्चकाङ्गुलत्रयपरिमितां वृत्तरेखासलग्नां ज्यां दद्यादित्येव द्व्यङ्गुलक्षेत्रफलं शनेः पीठम् । नैर्ऋत्यां नीलचूर्णेन चतुरङ्गुलमितचतुर्भुजं चतुरश्रं कृत्वा चतुरश्रस्याऽऽग्नेयकोणाद्दक्षिणतः षड्यूकैकयवैकाङ्गुल्यात्मक प्रदेशमृजुतया वर्धयित्वा तत्र चिह्नं कृत्वैवमेवोत्तरतो वर्धयित्वा चिह्नं च कृत्वा दक्षिणदिग्गतचिह्नां नैर्ऋतकोणपर्यन्तां रेखां लिखित्वोत्तरदिग्गतचिह्नाद्वायव्यकोणपर्यन्तां रेखां लिखित्वाऽध स्थाद्व्यङ्गुलात्मकभुजार्धयोश्चिह्ने कृत्वा ताभ्यां चिह्नाभ्यामेकैकाङ्गुलात्मकव्यासार्धेन कर्काटकेन वृत्तद्वयं लिखेन्मध्यस्थितं सर्वं मार्जयेदित्येव शूर्पाकारं पीठं राहोः । वायव्यां नानावर्णेन पूर्वापरमष्टाङ्गुलदीर्घं चतुर्यवान्तरं रेखाद्वयं विलिख्याध आरभ्य पञ्चाङ्गुलप्रमाणमुपरिभागादेकाङ्गुलप्रमाणं प्रदेशं दक्षिणरेखायास्त्यक्त्वाऽवशिष्टद्व्यङ्गुलप्रमाणां रेखां संमार्ज्यैकयवाधिकचतुरङ्गुलात्मकौ भुजौ दक्षिणतो मिथोलग्नास्यौ कुर्यादित्येव ध्वजाकारं पीठं केतोः । एवं पीठानि विधायाग्न्युत्तारणं कुर्यात्" इति ग्रन्थो वर्तते ।