पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४१

पुटमेतत् सुपुष्टितम्
[ग्रहयज्ञप्रयोगः]
१३७
संस्काररत्नमाला ।
( अग्न्युत्तारणपूर्वकप्राणप्रतिष्ठा )
 

हुतीर्वा जुहुयात् । एकैकाहुतिरिति संप्रदायः । मेर्वादीनां नमःशब्दरहितैः प्रणवादिचतुर्थ्यन्तैः स्वाहाशब्दसमन्वितैर्नाममन्त्रैर्होमः । होमकर्मणि समाप्ते ग्रहपीठवस्त्रं प्राच्यां शुक्रपीठं यथा भवति तथा सर्वतोभद्रपीठोपर्यास्तीर्य प्रतिमानामग्न्युत्तारणं कुर्यात् ।

अथाग्न्युत्तारणपूर्वकप्राणप्रतिष्ठा ।

 अश्मन्नूर्जमित्यनुवाकमन्त्राणामग्निर्ऋषिरग्निर्देवता । त्रिष्टुवादीनि च्छन्दांसि । अग्न्युत्तारणे विनियोगः । "ॐ अश्मन्नू० स्वस्ति" इत्यनुवाकेन प्रतिमानामग्न्युत्तारणं कृत्वा पञ्चामृतैः शुद्धोदकेन च प्रक्ष्याल्य[१] तत्तद्दिगानना ग्रहप्रतिमाः स्थापयित्वा सूर्यप्रतिमायाः कपोलौ स्पृष्ट्वा प्राणप्रतिष्ठां विदध्यात् ।

 अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामानि च्छन्दांसि । चिद्रूपा परा प्राणशक्तिर्देवता । आं बीजं, ह्रीं शक्तिः । क्रों[२] कीलकम् । सूर्यप्रतिमायां प्राणप्रतिष्ठापने विनियोगः । ॐ आं ह्रीं क्रों[३] यं रं लं वं शं षं सं हों ([४]ओं क्षं सं हंसः ह्रीं ओं) हंसः सोऽहं सूर्यप्रतिमायाः प्राणा इह प्राणाः । ओं आं ह्रीं क्रों[५] यं रं लं वं शं षं सं हों हंसः सोऽहं सूर्यप्रतिमाया जीव इह स्थितः । ओं आं ह्रीं क्रों[६] यं रं लं वं शं षं सं हों हंसः सोऽहं सर्वेन्द्रियाणि[७] वाङ्मनश्चक्षुःश्रोत्रत्वग्जिह्वाघ्राणपाणिपादपायूपस्था इहैवाऽऽगत्य स्वस्तये सुखं चिरं तिष्ठन्तु स्वाहा । इति जपेत् ।

 अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै[८] देवत्वमर्चायै स्वाहा । इति मन्त्रमुक्त्वा प्रतिमां सजीवां ध्यायेत्[९] । एवं प्राणप्रतिष्ठां विधाय प्रतिमां पञ्चामृतैः संस्नाप्य शुद्धोदकेन स्नापयेत् ।

 तत उदु त्यमित्यस्य सोमः सूर्यो गायत्री । सूर्यप्रतिमानेत्रोन्मीलने विनियोगः । "ॐ उदु त्यं जात० सूर्यम्" इतिमन्त्रेण सुवर्णशलाकया दर्भशलाकया वा गोघृतं गृहीत्वा तेन प्रतिमाया दक्षवामनेत्रे मन्त्रावृत्त्या क्रमेणोन्मील्य । अञ्जन्ति त्वामित्यस्य विश्वे देवा वनस्पतिस्त्रिष्टुप् । सूर्यप्रतिमानेत्रयोर्मधुनाऽभ्यञ्जने विनियोगः । "ॐ अञ्जन्ति त्वामध्वरे० पस्थे" इति मन्त्रा


  1. घ. ङ. ल्य सू ।
  2. ग. क्रौं ।
  3. ग. क्रौं ।
  4. धनुश्चिह्नान्तर्गत घ ड. पुस्तकयोरेव ।
  5. ग. क्रौं ।
  6. क्रौं ।
  7. घ. ङ. णि । भों ॐ आं ह्रीं क्रौं य रं लं व श षं स हों हसः सोऽहं वा ।
  8. क. स्यै जीव ।
  9. घ. त् । सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रत्वग्जिह्वाघ्राणपाणिपादपायूपस्था इत्येकमेव वा । ए ।