पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४२

पुटमेतत् सुपुष्टितम्
१३८
[ग्रहयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता-
(नवग्रहाद्यावाहनस्थापने)
 

वृत्त्या क्रमेण मधुना नेत्रे अभ्यज्योपहारं निवेदयेत् । नेत्रोन्मीलनमार[१]भ्य प्रतिमायाः पुर[२]तो न तिष्ठेत् । एवं सोमादिप्रतिमानामग्न्युत्तारणादिकमूहेन । प्रत्येकं कर्तुमशक्तौ सर्वासां सहैवोहेन । तत्र हंसः सोऽहमित्यनन्तरं सूर्यादिप्रतिमासु प्राणप्रतिष्ठापने वि० सूर्यादिप्रतिमानां प्राणा इत्यादिरूहो यथायथम् । ततो ग्रहानावाहयेत् ।

 तद्यथा--आ सत्येनेत्यस्य विश्वे देवाः सूर्यस्त्रिष्टुप् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । सूर्यावाहने विनियोगः । "ॐ आ सत्येन० विपश्यन्" ॐ भूर्भुवः सुवः,' भगवन्ग्रहाधिपते किरीटिंस्त्रिदेवतामय पद्मासन पद्माभयकर द्विभुज लोहितमाल्याम्बरधर लोहितगन्धानुलेपन माणिक्याभरणभूषित जपापुष्पोपमद्युते सप्ताश्वरथारूढ कलिङ्गदेशोद्भव काश्यपसगोत्र सूर्येहाऽऽगच्छेति मध्ये द्वादशाङ्गुले वर्तुल आरक्ताक्षतापूरिते पीठे प्राङ्मुख्यां ताम्रप्रतिमायां रक्ताक्षतैः सूर्यमावाह्येहाधितिष्ठेति स्थापयेत् । भूर्भुवः सुवरित्यादिदेवतापदान्तमुक्त्वा पूजार्थं त्वामावाहयामीत्यावाह्येहाधितिष्ठेति स्थापयेदित्येवं वा सर्वत्र प्रयोगः ।

 आप्यायस्वेत्यस्य सोमो विश्वे देवा वा सोमो गायत्री । व्याहृतीनामृष्यादि पूर्ववत्सर्वत्र । सोमावाहने विनियोगः । "ॐ आप्यायस्व समेतु ते० वाजस्य संगथे" भूर्भुवः सुवः, भगवन्नक्षत्राधिपते किरीटिन्सुधामय गदाव[३]रकर द्विभुज श्वेतमाल्याम्बरधर श्वेतगन्धानुलेपन मौक्तिकाभरणभूषित गोक्षीरोपमद्युते दशाश्वरथारूढ यमुनातीरोद्भवाऽऽत्रेयसगोत्र सोमेहाऽऽगच्छेत्याग्नेय्यां चतुर्विंशत्यङ्गुले चतुरश्रे श्वेताक्षतपूरिते पीठे प्रत्यङ्मुख्यां स्फटिकप्रतिमायां रजतप्रतिमायां वा श्वेताक्षतैः सोममावाह्येहाधितिष्ठेति स्थापयेत् ।

 अग्निमूर्धेत्यस्य प्रजापतिरग्निर्वाऽङ्गारको गायत्री । समस्तव्या० अङ्गारकावाहने विनियोगः । 'ॐ अग्निर्मूर्धा जिन्वति' भूर्भुवः सुवः, भगवन्नग्न्याकृते किरीटिञ्शक्तिशूलगदावरकर चतुर्भुज लोहितमाल्याम्बरधर लोहितगन्धानुलेपन प्रवालाभरणभूषित ज्वलत्पुञ्जोपमद्युते रक्तमेषरथारूढावन्तिकासमुद्भव भारद्वाजसगोत्राङ्गारकेहाऽऽगच्छेति दक्षिणे त्र्यङ्गुलत्रिकोणे रक्ताक्षतपूरिते पीठे दक्षिणामुख्यां रक्तचन्दनप्रतिमायां सुवर्णप्रतिमायां वा रक्ताक्षतैरङ्गारकमावाह्येहाधितिष्ठेति स्थापयेत् ।


  1. घ. ङ. रभ्योपहारपर्यन्तं प्र ।
  2. घ. ङ. रतः स्वयमन्योऽपि यः कश्चन नैव ति ।
  3. क. ग. रदहस्त द्वि ।