पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४४

पुटमेतत् सुपुष्टितम्
१४०
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(अधिदेवतावाहनस्थापने)
 

पैठीनसिसगोत्र राहो, इहाऽऽगच्छेति नैर्ऋत्यां द्वादशाङ्गुले शूर्पाकारे कृष्णाक्षतपूरिते पीठे दक्षिणामुख्यां सीसप्रतिमायां कृष्णाक्षतै राहुमावाह्येहाधितिष्ठेति स्थापयेत् ।

 केतुं कृण्वन्नित्यस्य विश्वे देवाः केतुर्गायत्री । समस्त० केत्वावाहने विनियोगः । "ॐ केतुं कृण्वन्न० यथाः" भूर्भुवः सुवः, भगवन्क्रूराकृते किरीटिन्गदावरकर द्विभुज चित्रमाल्याम्बरधर चित्रगन्धानुलेपन वैडूर्याभरणभूषित धूम्रोपमद्युते चित्रकपोतरथारूढान्तर्वेदिसमुद्भव जैमिनिसगोत्र केतविहाऽऽगच्छेति वायव्यां षडङ्गुले ध्वजाकारे चित्राक्षतपूरिते पीठे दक्षिणामुख्यां कांस्यप्रतिमायां चित्राक्षतैः केतुमावाह्येहाधितिष्ठेति स्थापयेत् । बहुवचनान्तो वा केतुशब्दः । अस्मिन्पक्ष ऋष्यादिस्मरणवाक्ये केतव इत्यूहः । भगवन्तः क्रूराकृतयः किरीटिनो गदावरकरा द्विभुजाश्चित्रमाल्याम्बरधराश्चित्रगन्धानुलेपना वैडूर्याभरणभूषिता धूम्रोपमद्युतयश्चित्रकपोतरथारूढा अन्तर्वेदिसमुद्भवा जैमिनिसगोत्राः केतव इहाऽऽगच्छतेत्यावाहनवाक्य ऊहः । इहाधितिष्ठतेति स्थापनवाक्ये।

 अथवा सर्वत्र देशगोत्रे एवोच्चार्ये । असंभव इतरस्याभिध्यानमात्रम् । यथोक्तपतिमानामलाभे सर्वाः सुवर्णमय्यस्तद[१]भावे तण्डुलपुञ्जादौ यथोक्ताक्षतालाभे सर्वाः श्वेता एव । सर्वे ग्रहा आदित्याभिमुखा एव वा स्थापनीयाः । अस्मिन्पक्षेऽपि सूर्यः प्रसिद्धप्राच्यभिमुख एव ।

अथाधिदेवताः ।

 त्र्यम्बकमित्यस्य विश्वे देवा ईश्वरोऽनुष्टुप् । समस्तव्या० ईश्वरावाहने विनियोगः । 'ॐ त्र्यम्बकं य० तात्' भूर्भुवः सुवः, ईश्वराय नम [२]ईश्वरमावाहयामीति सूर्यदक्षिणपार्श्वे पञ्चवक्त्रं प्रतिवक्त्रं त्रिलोचनं वृषारूढं चन्द्रमौलिं कपालशूलखट्वाङ्गधारिणमीश्वरम् ।

 गौरीर्मिमायेत्यस्य विश्वे देवा उमा जगती । समस्त० उमावाहने विनियोगः ।"ॐ गौरीर्मिमाय० व्योमन्" । भूर्भुवः सुवः, उमायै नम उमामावाहयामि ।


  1. घ. ङ. दलाभे पूगीफलेष्वक्षतपुञ्जेषु वा । य ।
  2. घ. ङ. पुस्तकयोः, ईश्वराय नम इत्यादिनाममन्त्रादनन्तरं पञ्चवक्त्रमित्यादितत्तद्विशेषणान्युल्लिख्येश्वरमावाहयामीति सूर्यदक्षिणपार्श्व ईश्वरमित्यादितत्तद्देवताद्वितीयान्तनामाऽऽवाहयामीतीतिविशिष्टं क्रियापदं तत्तद्देवताया आवाहनस्थानप्रदर्शकं पदं द्वितीयान्तं तत्तद्देवतानाम च निर्दिष्टं वर्तते ।