पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४६

पुटमेतत् सुपुष्टितम्
१४२
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(प्रत्यधिदेवतावाहनस्थापने )
 

 कार्षिरसीत्यस्य सोमः कालो यजुरेकपदा गायत्री वा । समस्त० कालावाहने विनियोगः । "कार्षिरस्य० मृध्रम्" भूर्भुवः सुवः, कालाय नमः कालमावाहयामीति राहुदक्षिणपार्श्वे कराळवदनं विभीषणं नित्यगं सर्पवृश्चिकरोमाणं पाशदण्डपाणिं कालम् ।

 चित्रावसो, इत्यस्य प्रजापतिश्चित्रगुप्तो यजुः । एकपदा जगती वा । समस्त० चित्रगुप्तावाहने विनियोगः । "ॐ चित्रावसो स्व० शीय" भूर्भुवः सुवः, चित्रगुप्ताय नमश्चित्रगुप्तमावाहयामीति केतुदक्षिणपार्श्व उदीच्यवेषसाकारं द्विभुजं लेखनीदक्षिणपाणिं पत्रवामपाणिं सौम्यदर्शनं चित्रगुप्तम् । इत्यधिदेवताः सुवर्णप्रतिमा[१]स्वक्षतपुञ्जेषु वाऽऽवाहयेत् ।

इत्यधिदेवताः ।

अथ प्रत्यधिदेवताः ।

 अग्निं दूतमित्यस्य प्रजापतिरग्निर्गायत्री । समस्त० अग्न्यावाहने विनियोगः । "ॐ अग्निं दूतं वृणीमहे० सुक्रतुम्" भूर्भुवः सुवः, अग्नये नमोऽग्निमावाहयामीति सूर्योत्तरपार्श्वे पिङ्गभ्रुवं श्मश्रुलं पिङ्गत्रिनेत्रं छागस्थमरुणं सप्तार्चिषमक्षसूत्रशक्तिधारिणं वरदमग्निम् ।

 अप्सु म इत्यस्य विश्वे देवा आपोऽनुष्टुप् । समस्त० अवावाहने विनियोगः । "ॐ अप्सु मे सोमो० षजीः" भूर्भुवः सुवः, अद्भ्यो नमोऽप आवाहयामीति सोमोत्तरपार्श्वे स्त्रीरूपिणीः श्वेता मकरवाहना मुक्ताभरणभूषिताः पाशकलशधारिणीरपः ।

 स्योना पृथवीत्यस्य याज्ञिक्यो देवता उपनिषदो भूमिर्गायत्री । समस्त० भूम्यावाहने विनियोगः । "ॐ स्योना पृथि० प्रथाः" भूर्भुवः सुवः, भूम्यै नमो भूमिमावाहयामीत्यङ्गारकोत्तरपार्श्वे शुक्लवर्णां दिव्याभरणभूषितां चतुर्भुजां सौम्यवपुषं चण्डांशुसदृशाम्बरां रत्नपात्रसस्यपात्रौषधपात्रपद्मधारिणीं चतुर्दिङ्नागपृष्ठगतां भूमिम् । भूमिशब्दे पृथिविशब्दोच्चारणं वा ।

 इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । समस्त० विष्ण्वावाहने विनियोगः "इदं विष्णुर्वि० पा सुरे" भूर्भुवः सुवः, विष्णवे नमो विष्णुमावाहयामीति


  1. घ.ङ. मासु पूगीफलेष्वक्ष ।