पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४७

पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१४३
संस्काररत्नमाला ।
( प्रत्यधिदेवतावाहनस्थापने )
 

बुधोत्तरपार्श्वे नीलमेघच्छविं श्रीवत्साङ्कं कौस्तुभवक्षसं गरुडारूढं चतुर्भुजं कौमोदकीपद्मशङ्खचक्रधारिणं विष्णुम् ।

 इन्द्रं व इत्यस्य विश्वे देवा इन्द्रो गायत्री । समस्त० इन्द्रावाहने विनियोगः । "ॐ इन्द्रं वो विश्वत० केवलः" भूर्भुवः सुवः, इन्द्राय नम इन्द्रमावाहयामीति बृहस्पत्युत्तरपार्श्वे चतुर्दन्तगजारूढं वज्राङ्कुशपाणिं नानाभरणभूषितं शचीपतिमिन्द्रम् ।

 इन्द्राणीमित्यस्य विश्वे देवा इन्द्राण्यनुष्टुप् । समस्त० इन्द्राण्यावाहने विनियोगः-- "ॐ इन्द्राणी० पतिः" भूर्भुवः सुवः, इन्द्राण्यै नम इन्द्राणीमावाहयामीति शुक्रोत्तरपार्श्वे द्विभुजां नानालंकारमण्डितां दिव्यवस्त्रां श्वेतगन्धानुलेपनां सौम्यां संतानमञ्जरी[१]वामहस्तां वरदामिन्द्राणीम् ।

 प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । समस्त० प्रजापत्यावाहने विनियोगः--"ॐ प्रजापते न० रयीणाम्" भूर्भुवः सुवः, प्रजापतये नमः प्रजापतिमावाहयामीति शनैश्चरोत्तरपार्श्वे यज्ञोपवीतिनं हंसस्थमेकवक्त्रं चतुर्भुजमक्षस्रुवपुस्तककमण्डलुधारिणं प्रजापतिम् ।

 आऽयं गौरित्यस्याग्निः सर्पा गायत्री । समस्त० सर्पावाहने विनियोगः-- "ॐ आऽयं गौ० पृश्नि० न्त्सुवः" । भूर्भुवः सुवः, सर्पेभ्यो नमः सर्पानावाहयामीति राहूत्तरपार्श्वेऽक्षसूत्रधरान्कुण्डिकाकारपुच्छसंयुतान्भीषणानेकभोगांस्त्रिभोगान्वा सर्पान् ।

 ब्रह्म[२] जज्ञानमित्यस्याग्निर्याज्ञिक्यो देवता उपनिषदो वा ब्रह्मा त्रिष्टुप् । समस्त० ब्रह्मावाहने विनियोगः-- "ॐ ब्रह्म[३] जज्ञानं० विवः" भूर्भुवः सुवः, ब्रह्मणे नमो ब्रह्माणमावाहयामीति केतूत्तरपाब्रह्म ब्रह्माणं यज्ञोपवीतिनं पद्मासनस्थं जटिलं चतुर्मुखमक्षमालास्रुवपुस्तककमण्डलुधारिणं पार्श्वभागस्थापितवासःकृष्णाजिनं पार्श्वभागस्थितहंसं ब्रह्माणम् । इति प्रत्यधिदेवताः सुवर्णप्रतिमा[४]स्वक्षतपुञ्जेषु वाऽऽवाहयेत् । अथवाऽग्न्यादयोऽधिदेवता ईश्वरादयः प्रत्यधिदेवताः[५] । तत्तद्ग्रहावाहनानन्तरमेव तत्तदधिदेवताप्रत्यधिदेवतावाहनं वा ।

इति प्रत्यधिदेवताः ।

  1. घ. ङ. रीवरकरामि ।
  2. घ. ङ. ब्रह्मा देवानामित्यस्य विश्वे देवा ब्र० ।
  3. घ. ड. ब्रह्मा देवानां० रेभन् । भ ।
  4. घ. ड. मासु पूगीफलेष्वक्ष ।
  5. क. ख. ग. ताः । अ ।