पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४८

पुटमेतत् सुपुष्टितम्
१४४
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(ऋतुसंरक्षकदेवतावाहनस्थापने)
 

अथ[१] क्रतुसंरक्षणदेवताः ।

 गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । समस्त० गणपत्यावाहने विनियोगः-- "ॐ गणानां त्वा गण० सीद सादनम् ।" भूर्भुवः सुवः, सिद्धिबुद्धिसहिताय महागणपतये नमः सिद्धिबुद्धिसहितं महागपतिमावाहयामीति राहोरुत्तरतो गजाननं मूषकवाहनं नागयज्ञोपवीतिनं शशाङ्ककृतशेखरं सिद्धिबुद्धियुतं चतुर्भुजं त्रिनेत्रं दन्ताक्षसूत्रपरशुमोदकधारिणं गणेशम्[२]

 जातवेदस इत्यस्य याज्ञिक्यो देवता उपनिषदो दुर्गा त्रिष्टुप् । समस्त० दुर्गावाहने विनियोगः-- "ॐ जा[३]तवेदसे सुनवा० दुरितात्यग्निः" भूर्भुवः सुवः, दुर्गायै नमो दुर्गामावाहयामीति शनेरुत्तरतः सिंहारूढां दशभुजां शक्तिबाणशूलखड्गचक्रचन्द्रबिम्बखेटकपाल[४]शुकटङ्कहस्तां दु[५]र्गासुहारिणीं दुर्गाम् ।

 वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । समस्त० वाय्यावाहने विनियोगः--"ॐ वायो शतं हरीणां० पाजता" भूर्भुवः सुवः, वायवे नमो वायुमावाहयामीति सूर्यस्योत्तरतो धावद्धरिणपृष्ठस्थं द्विभुजं ध्वज[६]हस्तं वरदं धूम्रवर्णं वायुम् ।

 घृतं घृतपावान इत्यस्य सोम आकाशो यजुः । समस्त० आकाशावाहने विनियोगः--"ॐ घृतं घतपा० रिक्षाय" भूर्भुवः सुवः, आकाशाय नम आकाशमावाहयामीति राहोर्दक्षिणतो नीलोत्पलाभं नीलाम्बरं द्विभुजं सौम्यं ष[७]ण्डं चन्द्रार्कहस्तमाकाशम् ।

 या वां कशेत्यस्य सोमोऽश्विनौ गायत्री । समस्त० अश्व्यावाहने विनियोगः--"ॐ या वां कशा० क्षतम्" भूर्भुवः सुवः, अश्विभ्यां नमोऽश्विनावावाहयामीति केतोर्दक्षिणतो द्विभुजौ दिव्यौषधिदक्षिणहस्तौ दर्शनीयपुस्तकवामहस्तावन्योन्ययुक्तदेहौ सुरूपचारुदर्शनरत्नभाण्डकरचन्द्रशुक्लाम्बरनारीयुगपार्श्वौ देवभिषजावश्विनौ ।

 वास्तोष्पत इत्यस्य प्रजापतिर्वास्तोष्पतिस्त्रिष्टुप् । समस्त० वास्तोष्पत्यावाहने विनियोगः--"ॐ वास्तोष्पते० चतुष्पदे" भूर्भुवः सुवः, वास्तोष्पतये नमो वास्तोष्पतिमावाहयामीति बृहस्पतेरुत्तरतो भगवन्तं वास्तुपुरुषं महाबलपराक्रमं सर्वदेवाधिवासाश्रयशरीरं ब्रह्मपुत्रं सकलब्रह्माण्डधारिणं भूमिभारार्पितमस्तकं


  1. घ. ङ. थ कर्मम ।
  2. घ. ङ. म् । तामग्निवर्णामित्य ।
  3. घ. ड. ॐ तामग्निवर्णो० तरसे नमः । भृ ।
  4. क. लभूक । ग. लशूलट ।
  5. घ. ङ. दुर्गदैत्यासु ।
  6. घ. ङ. जवरकरं धू ।
  7. ग. षडङ्गं ।