पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५

पुटमेतत् सुपुष्टितम्
[परिभाषाकारिकाः]
११
संस्काररत्नमाला ।

नतिमुद्रायुतो मन्त्रं पठेदियमुपस्थितिः ।
[१]तिष्ठ[२]ता श्रवणं चेत्स्या[३]दत्र सा नियता तदा ॥ ६१ ॥
अभिमर्शो मन्त्रपाठः संस्पर्शसमकालिकः ।
चतुःस्वरोच्चारणात्मा जपतीति विधौ जपः ॥ ६२ ॥
अभिमर्शानुमन्त्राभिमन्त्रोपस्थितिकर्मणाम् ।
प्रसाधितं जपत्वं हि व्याख्याकृद्भिरतस्त्वयम् ॥ ६३ ॥
चतुःस्वरत्वधर्मस्तु मन्त्रेष्वेतेष्वपि स्मृतः ।
ततोऽन्यत्र तु मन्त्राणां नियतैकश्रुतिर्भवेत् ॥ ६४ ॥
कात्यायनमतादत्रापि स्युर्वा स्वरसंयुताः ।
सर्वत्रैव न्यूङ्खसाम्नोश्चत्वारो नियताः स्वराः ॥ ६५ ॥
संवादप्रैषभिन्नानां मन्त्राणां स्यादुपांशुता ।
आश्रावणं प्रवरणं प्रत्याश्रावणमेव च ॥ ६६ ॥
श्रौत एतान्यपि ज्ञेयान्युच्चैरेव विचक्षणैः ।
कुर्यादुपनयादीनि विवाहान्तानि लौकिके ॥ ६७ ॥
प्रायश्चित्ताख्यकर्माणि काम्यकर्माणि वै तथा ।
औपासने लौकिके वा कर्तव्यानि सदा बुधैः ॥ ६८ ॥
उपाकर्मोत्सर्जने तु कुर्याच्छिष्ययुतो यदि ।
लौकिकानां तदा कुर्यादशिष्यश्चेत्स्ववह्निके ॥ ६९ ॥
गृह्यानले प्रकर्तव्यो होमः पारायणीयकः ।
पारायणस्य कर्ता चेदृत्विग्लोकानले तदा ॥ ७० ॥
अवशिष्टं गृह्यकर्म कार्यमौपासनेऽनले ।
औपासनाग्निसाध्येषु प्रजासंस्कारकर्मसु ॥ ७१ ॥
मुख्यकर्तुरभावेन यदि कर्त्रन्तरं भवेत् ।
लौकिकाग्नौ तदा कर्म न तु गृह्ये कदाचन ॥ ७२ ॥
सर्वाधानी भवेद्विप्रश्चेत्तदा तत्र लुप्यते ।
स्थालीपाकः पार्वणाख्य औपासनहुतिस्तथा ॥ ७३ ॥
मासिश्राद्धादि लोकाग्नाविति केचिद्बुधा जगुः ।
मासिश्राद्धं दक्षिणाग्नावष्टकादीनि लौकिके ॥ ७४ ॥


  1. इदमर्धे ख. पुस्तके नास्ति । अस्यार्थो नावबुद्धः ।
  2. ग. ष्ठत्ता श्र ।
  3. ग. त्स्याद्यत्र ।