पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५१

पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१४७
संस्काररत्नमाला ।
( ग्रहपूजने वस्त्रपुष्पधूपाः )
 

ततः-- "नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां
 जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम्"

 ([१]इति सर्वा देवताः प्रतिष्ठाप्य काण्डानुसमयेन[२] पदार्थानुसमयेन वा [[३]पूजयेत् । एकस्य कृत्स्नां पूजां समाप्यान्यस्य कुर्यादित्येष काण्डानुसमयः । पदार्थानुसमयस्तु सर्वेषामावाहनं कृत्वा क्रमेणैकैकस्मै तं तमुपचारमर्पयेदिति ।एष ग्रहाणां पूजने विशेषः--ग्रहवर्णानि वासांसि । दि[४]वाकराय रक्तचन्दनम् । चन्द्राय श्वेतचन्दनम् । भौमाय रक्तचन्दनम् । बुधाय[५] कुङकुमयुक्तं चन्दनम् । गुरवे[६]ऽपि कुङ्कुमयुक्तं चन्दै[७]नमेव । शुक्राय श्वेतचन्दनम् । शनिराहुकेतुभ्यो[८]ऽगरुः ।

 [९]रवये रक्तं करवीरम् । सोमाय श्वेतं करवीरम्, भौमाय रक्तोत्पलम् । बुधाय चम्पकपुष्पम् । गुरवेऽगस्त्यपुष्पम् । शुक्रायातसीपुष्पम् । शनये कालाञ्जनीपुष्पम् । राहवे सर्षपपुष्पम् । केतवे शङ्खिनीपुष्पम् ।

 रवये सल्लकीनिर्यासधूपः । सोमाय घृतयुक्ताक्षतधूपः । भौमाय सारफलीतिप्रसिद्धस्य सर्जरसस्य धूपः । बुधायागरुधूपः । गुरवे लोहबाण इति प्रसिद्धस्य [१०]सिह्लाद्रव्यस्य धूपः । शुक्राय बिल्वफलनिर्याससहितस्यागरोर्धूपः । शनये गुग्गुलुधूपः । राहुकेतुभ्यां लाक्षाधूपः । घृतदीपः सर्वेषाम् ।


  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने घ. ङ. पुस्तकयोः--"इति देवताप्रतिष्ठापन कुर्यात् । मन्त्रावृत्तिः प्रतिदेवतम् । तत्तदावाहनानन्तरमेव तत्तत्प्रतिष्ठापन तत्तत्पूजनं चेति काण्डानुसमय एवात्र नियतः, सौकर्यात् । आवाहनं प्रतिष्ठापन च क्रमेणैकैकस्या देवतायाः कृत्वैकैकस्यै त तमुपचारं निवेदयेदित्येवंरूपो हि पदार्थानुसमयः । तस्य शक्रार्कौ प्राङ्मुखौ ज्ञेयावित्यस्मिन्पक्षे प्रतिदेवतं यथायथं यथायोग्यप्राप्तप्राङ्मुखोदङ्मुखतयोस्तदभिमुखताया वा विलम्बावहत्वान्न भवति । विलम्बसहने प्रधानस्य तदारम्भस्य वा पूर्वाह्नकालता बाध्येत । अतः काण्डानुसमय एवात्र । ग्रहाणां पूजनेऽयं" इति वर्तते ।
  2. ग. न वा ।
  3. एतच्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तकेऽय ग्रन्थः--"षोडशोपचारैः पूजयेत् । तत्र विशेषः--ग्रहवर्णानि वासांसि । गन्धाः पुष्पाणि च । प्रहवर्णवस्त्रगन्धपुष्पाणामलाभे श्वेतान्येतानि । गुग्गुलुधूपः । तदलाभे यः कश्चन सौरभ्ययुक् । गडौदनघृतपायसहविष्यान्नक्षीरषाष्टिकदध्योदनघृतौदनतिलमाषमिश्रितान्नलवणमिश्रक्षीरौदनचित्रौदना इति ग्रहाणां क्रमेण नैवेद्यम् । एतेषामलाभे यथासंभवम्" इति ।
  4. घ. ङ. सूर्याय ।
  5. ग. घ. ङ. य केशरयु ।
  6. ग. घ. ङ. वे केशरयु ।
  7. ग. घ. ङ. न्दनं, शु ।
  8. ग. घ. ङ. भ्योऽगुरुः ।
  9. ग. घ. ङ. सूर्याय ।
  10. ग. सिलाद्र ।