पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५४

पुटमेतत् सुपुष्टितम्
१५०
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(रुद्रकलशाराधनम् )
 

प्रसिद्धम् । सटी कचोरः । चम्पकश्चम्पकवृक्षत्वक् । मुस्ता भद्रमोथेति । एतासा[१]मभावे ([२]शतावरी[३] । मन्त्रस्तु यः पञ्चरत्नानां स एव । काण्डात्काण्डादित्यस्याग्निरोषधयोऽनुष्टुप्, दूर्वाप्रक्षेपे वि० । "ॐ काण्डात्काण्डा० शतेन च" इति कलशे दूर्वाः प्रक्षिप्य--

 अश्वत्थे वेत्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चत्वक्प्रक्षेपे वि० । "ॐ अश्वत्थे वो० पूरुषम्" इति न्यग्रोधपिप्पलप्लक्षजम्बूचूततरूणां त्वचः सहैव कलशे क्षिपेत् । जम्बूस्थान उदुम्बरो वा ।

 अश्वत्थे व इत्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चपल्लवप्रक्षेपे[४] वि० । "ॐ अश्वत्थे० पूरुषम्" इत्येतेषामेव तरूणां सहैव पल्लवान्कलशे क्षिपेत् ।

 याः फलिनीरित्यस्याग्निरोषधयोऽनुष्टुप्, पञ्चपल्लवप्रक्षेपणे वि० "ॐ याः फलिनी० हसः" इति कलशे फलं प्रक्षिप्य,

 अग्ने रेतश्चन्द्रमित्यस्याग्निर्हिरण्यं त्रिष्टुप्, हिरण्यप्रक्षेपे वि० "ॐ अग्ने रेत० रेयम्" इति कलशे हिरण्यं प्रक्षिप्य,

 बृहस्पते जुषस्व न इत्यस्याग्निर्बृहस्पतिर्गायत्री । पञ्चरत्नप्रक्षेपे वि० "ॐ बृहस्पते जु० दाशुषे" इति सुवर्णरजतमुक्तामाणिक्यप्रवालात्मकपञ्चरत्नानि प्रक्षिपेत् । एतेषामलाभे[५] ) सुवर्णं[६] कलशे प्रक्षिपेत् ।

 ततो दूर्वाम्रपल्लवैः कलशस्य मुखमाच्छाद्य युवं वस्त्राणीत्यस्य विश्वे देवा मित्रावरुणौ त्रिष्टुप्[७] । वस्त्रयुग्मेन(ण) कलशवेष्टने विनियोगः-- "ॐ युवं वस्त्राणि सचेथे" इति कलशं[८] श्वेतवस्त्रयुग्मेन(ण) वेष्टयित्वा पूर्णा द[९]र्वि परापतेत्यस्य विश्वे देवाः शतक्रतुरनुष्टुप्, कलशानने तण्डुलपूर्णपात्रनिधाने विनियोगः-- "पूर्णा दर्वि० शतक्रतो" इति तण्डुलपूर्णपात्रं कलशानने निदध्यात् ।

 ततः--"कलशस्य मुखे० सर्वे समुद्राः० रकाः । गङ्गे च यमुने० जलेऽस्मिन्संनिधिं कुरु" ।

 इति[१०] कलशे देवता आवाह्य संपूज्य वरुणं तत्त्वा यामीत्यावाह्य संपूजयेत् ।


  1. क.ख. मप्यभा ।
  2. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।
  3. घ. ङ. री । का ।
  4. घ. ङ. प्रक्षेपणे ।
  5. ग. भे. व (च) सु ।
  6. ग. घ. ङ. र्ण प्र ।
  7. ग. प् । क ।
  8. क. ख. श. व
  9. क. ख. दर्वीति तण्डुलपूर्णेन पात्रेण कलशाननं पिधाय तत्र कलशस्य मु ।
  10. क. ति दे ।