वैजयन्तीकृदाहेति प्राहुरन्येऽपि केचन ।
प्रजासंस्कारकर्माणि स्युर्लोकानल एव तु ॥ ७५ ॥
शास्त्रान्तरप्रोक्तचित्तहोमाः संधानहेतवः ।
नष्टस्य कर्मणो यस्मात्तस्मात्स्युर्गृह्य एव ते ॥ ७६ ॥
स्वतन्त्रत्वाल्लौकिकाग्नावेव शास्त्रान्तरेरितम् ।
ग्रहयज्ञादिकं कार्यं न तु गृह्यानले चरेत् ॥ ७७ ॥
गृह्यान्तरोक्तं लोकाग्नौ गृह्याग्नावथ वाऽऽचरेत् ।
पुनरग्न्याहितौ सर्वाधानिनो मथितानले ॥ ७८ ॥
आनीते श्रोत्रियागाराद्वाऽग्नौ ब्रह्मौदनक्रिया ।
विवाहे यदि निर्मन्थ्यस्तदाऽत्र स्यात्तु मन्थनम् ॥ ७९ ॥
यदि द्वितीयः पक्षः स्यात्स्वीकार्योऽत्र स एव तु ।
एवंरूपा व्यवस्था तु व्याख्याकृद्भिः प्रदर्शिता ॥ ८० ॥
बहुशुष्केन्धने चाग्नौ सुसमिद्धे विधूमके ।
साङ्गारे लेलिहाने च होतव्यं नान्यथा क्वचित् ॥ ८१ ॥
आज्यहोमे सूत्रकृता दर्व्येव विहिता यतः ।
अतस्तत्र भवेत्सैव न स्रुवेणाऽऽहुतिर्भवेत् ॥ ८२ ॥
साधनं क्षीरदध्यादिहोमे दर्वी स्रुवोऽथवा ।
सूत्रकृद्विहिते होमे द्रव्यस्य कठिनस्य तु ॥ ८३ ॥
दर्वी हस्तोऽथवा ज्ञेयः शान्त्यादौ हस्त एव तु ।
होमे शिष्टैरादृतोऽस्ति यतोऽतोऽत्र स एव हि ॥ ८४ ॥
हस्त एवाऽऽचार्यवाक्यादौपासनहुतौ भवेत् ।
होमद्रव्ये त्वनादिष्टे सर्वत्राऽऽज्यं प्रकीर्तितम् ॥ ८५ ॥
कण्ठोक्त्या समिधां स्याच्चेद्यत्र प्रादेशमात्रता ।
तत्रैव सा स्यादन्यत्र त्वैच्छिकीयं समीरिता ॥ ८६ ॥
ओषध्यः सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् ।
एतद्धस्तेन होतव्यं नान्यत्किंचिदचोदनात् ॥ ८७ ॥
अनादेशे दक्षिणा गौर्हेम वा पूर्णपात्रकम् ।
देवकार्ये नैव देयं रजतं त्वश्रुजं हि तत् ॥ ८८ ॥
पात्रं पादोपसंस्पृष्टं प्रक्षाल्यं सर्वथा बुधैः ।
हुतं यन्मांसधौतेन तन्न भुङ्क्ते हि देवता ॥ ८९ ॥
पात्राणां शोधनं नातः कार्यं केवलहस्ततः ।
किंतु दर्भैस्तृणैर्वाऽपि पर्णैर्वा वाससाऽपि वा ॥ ९० ॥