पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६१

पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१५७
संस्काररत्नमाला ।
( आदित्यादिग्रहबलिदानम् )
 

 अग्निमूर्धेत्यस्य प्रजापतिरङ्गारको गायत्री । अङ्गारकप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ अग्निर्मूर्धा० जिन्वति" अङ्गारकाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय स्कन्दभूमिरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो अङ्गारकेमं० भव० अङ्गारकः प्रीयताम् ।

 उन्बुध्यस्वेत्यस्याग्निर्बुधस्त्रिष्टुप् । बुधप्रीत्यर्थं बलिदाने विनियोगः-- "उद्बुध्य० मेतम्" बुधाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नारायणविष्णुरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो बुधेमं० भव० बुधः प्रीयताम् ।

 बृहस्पते अतीत्यस्य विश्वे देवा बृहस्पतिस्त्रिष्टुप् । बृहस्पतिप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ बृहस्पते० चित्रम्" बृहस्पतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय ब्रह्मेन्द्ररूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो बृहस्पत इमं० भव० बृहस्पतिः प्रीयताम् ।

 शुक्रं त इत्यस्य विश्वे देवाः शुक्रस्त्रिष्टुप् । शुक्रप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ शुक्र ते अन्य० रस्तु" शुक्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेन्देन्द्राणीरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः शुक्रेमं० भव० शुक्रः प्रीयताम् ।

 शं नो देवीरित्यस्य प्रजापतिः शनैश्चरो गायत्री । शनैश्चरप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ शं नो देवीरभिष्ट० स्रवन्तु नः" शनैश्चराय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय यमप्रजापतिरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः शनैश्चर० भव० शनिः प्रीयताम् ।

 कया न इत्यस्य विश्वे देवा राहुर्गायत्री । राहुप्रीत्यर्थं बलिदाने विनियोगः । "ॐ कया नश्चित्र० वृता" राहवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय कालसर्परूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भो राहो० भव० राहुः प्रीयताम् ।

 केतुं कृण्वन्नित्यस्य प्रजापतिः केतुर्गायत्री । केतुप्रीत्यर्थं बलिदाने विनियोगः । "ॐ केतुं कृण्वन्नकेतवे० जायथाः" केतवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय चित्रगुप्तब्रह्मरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः केतो, इमं बलिं० केतुः प्रीयताम् । केतुश