पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६२

पुटमेतत् सुपुष्टितम्
१५८
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(क्रतुसंरक्षकदेवताबलिदानम् )
 

ब्दस्य बहुवचनान्तत्वपक्षे केतुभ्यः साङ्गेभ्यः सपरिवारेभ्यः सायुधेभ्यः सशक्तिकेभ्यश्चित्रगुप्तब्रह्मरूपाधिदेवताप्रत्यधिदेवतासहितेभ्य इमं सदीपं माषभक्तबलिं समर्पयामि । भोः केतव इमं बलिं गृह्णीत मम सकुटुम्बस्याऽऽयुष्कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारस्तुष्टिकर्तारो निर्विघ्नकर्तारो वरदा भवत । अनेन बलिदानेन केतवः पीयन्तामित्यूहः ।

 गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । गणपतिप्रीत्यर्थं बलिदाने विनियोगः । "ॐ गणानां त्वा० सादनम्" गणपतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय सिद्धिबुद्धिसहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः सिद्धिबुद्धिसहित गणपत इमं व० गणपतिः प्रीयताम् ।

 जातवेदस इत्यस्य याज्ञिक्यो देवता उपनिषदो दुर्गा त्रिष्टुप् । दुर्गाप्रीत्यर्थं बलिदाने विनियोगः । "ॐ जातवेदसे सुनवा० त्यग्निः" दुर्गायै साङ्गायै सपरिवारायै सायुधायै सशक्तिकायै, इमं सदीपं माषभक्तबलिं समर्पयामि । भो दुर्ग इमं बलिं गृहाण मम सकुटुम्बस्याऽऽयुष्कर्त्री क्षेमकर्त्री शान्तिकर्त्री पुष्टिकर्त्री तुष्टिकर्त्री निर्विघ्नकर्त्री वरदा भव० दुर्गा प्रीयताम् ।

 वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । वायुप्रीत्यर्थं बलिदाने विनियोगः । "ॐ वायो शतं० पाजसा" वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेमं सदीपं माषभक्तबलिं समर्पयामि । भो वायो, इमं बलिं० वायुः प्रीयताम् ।

 घृतं घृतपावान इत्यस्य सोम आकाशो यजुः । आकाशप्रीत्यर्थं बलिदाने विनियोगः । "ॐ घृतं घृतपा० क्षाय" आकाशाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेमं सदीपं माषभक्तबलिं समर्पयामि । भो आकाशेमं बलिं० आकाशः प्रीयताम् ।

 या वां कशेत्यस्य सोमोऽश्विनौ गायत्री। अश्विप्रीत्यर्थं बलिदाने विनियोगः । "ॐ या वां कशा० मिक्षतम्" अश्विभ्यां साङ्गाभ्यां सपरिवाराभ्यां सायुधाभ्यां सशक्तिकाभ्यामिमं माषभक्तबलिं समर्पयामि । भो अश्विनाविमं बलिं गृह्णीतम् । मम सकुटुम्बस्याऽऽयुष्कर्तारौ क्षेमकर्तारौ शान्तिकर्तारौ पुष्टिकर्तारौ तुष्टिकर्तारौ निर्विघ्नकर्तारौ वरदौ भवतम् । अनेन बलिदानेनाश्विनौ प्रीयेताम् ।

 वास्तोष्पत इत्यस्य प्रजापतिर्वास्तोष्पतिस्त्रिष्टुप् । वास्तोष्पतिप्रीत्यर्थं बलिदाने विनियोगः। "ॐ वास्तोष्पते० चतुष्पदे" वास्तोष्पतये साङ्गाय सप