पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६५

पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१६१
संस्काररत्नमाला ।
( पुराणोक्तयजमानाभिषेकमन्त्राः)
 

ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥

[१]इत्यग्निपुराणोक्तैर्मन्त्रैः,

ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसंभूतां पीडां दहतु ते रविः
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसंभूतां पीडां दहतु ते विधुः
भूमिपुत्रो महातेजा जगतां भयकृत्सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां दहतु ते कुजः
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान्पीडां दहतु ते बुधः
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसंपूर्णः पीडां दहतु ते गुरुः
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां दहतु ते भृगुः
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां दहतु ते शनिः
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां दहतु ते तमः
अनेकरूपव[२]र्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतः पीडां दहतु ते शिखी

 इति मन्त्रैर्देवस्य त्वेत्यादिभिर्मन्त्रैश्चाभिषिञ्चेत् । [३]ततः कलशोदकेनान्येन च जलेन तैलाभ्यङ्गसर्वौपध्यनुलेपनपूर्वकं सुस्नातौ दंपती[४] अभिषेकवासांसि परित्यज्याहतवासांसि परिधाय श्वेतचन्दनपुष्पाण्यलंकारांश्च धृत्वाऽग्नेः पश्चादुपविशतो दक्षिणतः पत्नी[५] । त्यक्तवासांस्याचार्यस्य ।


  1. घ. ड. इत्येतैः ।
  2. क. वर्णश्च ।
  3. क. ख. ग. ततोऽभिषेकानन्तरं क ।
  4. घ. ङ. ती अहतवासांसि परिधायाभिषेकवासांस्याचार्याय दत्त्वा श्वे ।
  5. घ. ड. त्नी । त ।