पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६८

पुटमेतत् सुपुष्टितम्
१६४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता-
( उपनयनाधिकारिणः )
 

पत्यानेन ग्रहमखाख्येन कर्मणाऽऽदित्यादयो ग्रहाः प्रीयन्तां न ममेतीश्वरार्पणं कृत्वा हृष्टमनाः सुहृद्युक्तो भुञ्जीत ।

इति संस्काररत्नमालायां ग्रहमखप्रयोगः ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां तृतीयं प्रकरणम् ॥ ३ ॥

अथ चतुर्थं प्रकरणम् ।

उपनयनाधिकारिणः ।

 अथोपनयनं सूत्रक्रमानुसारेणाऽऽदावुच्यते । तस्य श्रौतत्वेन वेदाध्ययनार्थत्वेन कर्माधिकारसंपादकत्वेन च मुख्यत्वात् । अङ्गभूयस्त्वलाभात्प्रायश्चित्तेन चरितार्थत्वमेतस्य न भवतीति ज्ञापयितुं चाऽऽचार्येणाऽऽदौ तदेव सूत्रितम् । उपनयनं नाम येन कर्मणा यस्मिन्वा कर्मणि आचार्येण विद्यार्थं सुमुहूर्ते कुमारस्य स्वसमीपे नयनम् । तच्च संकल्पप्रभृतिसावित्रीव्रतविसर्गान्तकर्मसमुदायात्मकम् । अत्र प्रधानं व्याहृतिभिः सावित्र्या सावित्रेण चाऽऽत्मनः समीपे कुमारस्य नयनम् । इतराण्यङ्गानि । गायत्र्युपदेशोऽपि प्रधानमित्यपरार्कः । अयं च दृष्टार्थः संस्कारः 'उपनयनं विद्यार्थस्य श्रुतितः संस्कारः' इति वचनात् ।

 एतच्च त्रैवर्णिकानामेव न शूद्राणाम्--

 'अशूद्राणामदुष्टकर्मणामुपनयनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि'

इति धर्मसूत्रात् ।

 इदमेव द्वितीयं जन्मेत्याह याज्ञवल्क्यः--

"मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः" इति ॥

 इदमेव ब्रह्मजन्मेत्याह मनुः--

"तत्र यद्ब्रह्मचर्यं तु मौञ्जीबन्धेन चिह्नितम् ।
सा तस्य माता सावित्री पिता त्वाचार्य उच्यते" इति ।