पुंसामेवैतद्भवति न स्त्रीणाम् 'स्त्रीभिर्नाध्येयम्' इति स्त्रीणामध्ययनप्रतिषेधात् । 'न स्त्रीशूद्रसमीपे ब्रह्म श्रावयेत्' इति स्त्रीणां श्रवणप्रतिषेधात् ।
"पाणिग्रहो विधिः स्त्रीणामौपनायनिकः परः" । |
इति तासां विवाहस्यैवोपनयनरूपत्वाच्च ।
यत्तु हारीतेन--
"द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययनं स्वगृहे भैक्षचर्या चेति सद्योवधूनामुपनयनं कृत्वा विवाहः"
इत्युक्तं तद्युगान्तरविषयम् ।
"पुरा कल्पे हि नारीणां मौञ्जीबन्धनमीरितम् । |
इति [१]कूर्मोक्तेः ।
उपनयनकालः ।
अथैतत्कालः । तत्रेयं श्रुतिः--
"वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्" इति । |
अत्र च माणवककर्तृकं गुरुसमीपगमनं विधीयत इति प्राञ्चः । नवीनास्तु णिजार्थाविवक्षायां मानाभावादाचार्यकर्तृकं माणवकाधिकारिकमुपनयनमेव विधीयते नोपगमनम् । क्लृप्तीर्यजमानं वाचयति पञ्चभिः पावयतीत्यत्र यजमानाधिकारिकाध्वर्युकर्तृकवाचनपावनादिवत् । अत एव च्छान्दोग्योपनिषदि गुरुकर्तृकोपनयनानुकूलव्यापाररूपोपगमकर्तृकता--"जाबालो मातरमामन्त्र्याऽऽत्मानमुपनाययितुं गौतममाजगाम" इति । हेमाद्रौ बुधवचस्यपि--'गर्भाष्टमे वर्षे ब्राह्मणमुपनाययेत्' इति । एतयाऽन्नाद्यकामं याजयेदित्यत्र तु यजमानस्य प्रयोज्याध्वर्य्वादिकर्तृत्वे मानाभावाद्यजेः स्वार्थणिजर्थविशेषणतया परार्थवच्चोच्चारणं विधिश्च स्यादिति णिजर्थाविवक्षया यजनमेव विधीयत इत्याहुः ।
कैश्चित्तूपनायनशब्देनोपनयनमेवाभिधीयत इत्युक्तं तदयुक्तम् । उपनयनविषयप्रयोजकव्यापारस्योपनयनशब्दवाच्यत्वाल्लक्षणायां मानाभावादिति हेमाद्रिः ।
अन्ये तु आचार्यसमीपनयनाङ्गको गायत्र्युपदेशः प्रधानं 'गायत्र्या ब्राह्मणमसृजत्' इति श्रुतौ 'गायत्र्या ब्राह्मणमुपनयीत' इति कात्यायनस्मृतौ चोपनय
- ↑ ग. घ. ङ. यमोक्तेः ।