पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७

पुटमेतत् सुपुष्टितम्
[दक्षिणाद्रव्येयत्ताव्यवस्था]
१३
संस्काररत्नमाला ।
(धनिकादिलक्षणम्)
 

सर्वेषु धर्मकार्येषु पत्नी दक्षिणतो भवेत् ।
अभिषेके विप्रपादक्षालने वामतः स्मृता ॥ ९१ ॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाऽऽप्नोति फलं तस्य परत्रेति श्रुतिः स्मृतिः ॥ ९२ ॥
बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रचोदितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥ ९३ ॥
यन्नाऽऽम्नातं स्वशाखायां पारक्यमविरोधि यत् ।
आकाङ्क्षितं शेषभूतमनुष्ठेयं विचक्षणैः ॥ ९४ ॥
तत्कृतौ फलवैशिष्ट्यं न दोषस्त्वकृतौ भवेत् ।
सामयाचारिका धर्मा देश[१]जातिकुलोद्भवाः ॥ ९५ ॥
ग्रामाचाराः परिग्राह्या ये च शास्त्राविरोधिनः ।
युगधर्माः परिग्राह्याः सर्वत्रैव यथोचितम् ॥ ९६ ॥

इति संक्षेपेण परिभाषाः ।

दक्षिणार्थद्रव्येयत्ताव्यवस्था धनिकादिलक्षणं च ।

अथ धनिकादिप्रदेयदक्षिणार्थद्रव्येयत्ताव्यवस्था ।
 तत्राऽऽदौ धनिकादिलक्षणं वाराहे--

"वर्धयित्वा धनं यस्तु तस्माद्वासमपीह यः ।
न खादेत्संग्रहपरो धनिकः स उदाहृतः ॥
पोषणीयकुटुम्बस्य निर्वाहो यावता भवेत् ।
तावदेव सुखं येन लभते प्रतिवार्षिकम् ॥
ऋणं यस्य तु नास्त्येव स मध्यम उदाहृतः ।
धनं पूर्वापरं यस्य वर्तते बहुसंख्यया ।
अधिकस्यार्जको यः स्यात्स महाधन उच्यते ।
सदाचाररतो विप्रो धनार्जनपराङ्मुखः ॥
कुटुम्ब्ययत्नमतिकः स दरिद्र इति स्मृतः ।
यस्य स्यादशनाभावः सदाचाररतस्य हि ।
महादरिद्रः स भवेद्वासोधान्यविवर्जितः ॥


  1. ग. शज्ञाति ।