ब्राह्मणं वसन्त उपनयेदेकादशवर्ष राजन्यं ग्रीष्मे द्वादशवर्षं वैश्य शरदि' इत्येव वक्तव्ये कालवयसोः पृथग्ग्रहणमशक्तौ कामसंयोगे वाऽन्यस्मिन्नपि वयसि सर्वस्मिन्नप्युदगयने भवेदिति कालवयसोरनित्यत्वख्यापनार्थम् ।
याज्ञवल्क्यः--
"गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम् । |
गर्भाधानमवधिं कृत्वा जन्मतो वाऽष्टममिति विज्ञानेश्वरः । गर्भग्रहणं सर्वत्रानुवर्तते ।
"गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः" । |
इतिस्मृत्यन्तरादित्यप्याह सः । सैके द्वादशे । उक्तेषु वचनेष्वष्टमवर्षसंबन्धेनैवाष्टवर्षत्वं न त्वतीताष्टवर्षत्वेनेति बोध्यम् ।
अथ काम्यकालः ।
स च धर्मसूत्रे--
"अथ काम्यानि सप्तम आयुष्काममष्टमे ब्रह्मवर्चसकामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकाममाषोडशाद्ब्राह्मणस्यानात्यय आद्वाविंशात्क्षत्रियस्याऽऽचतुर्विंशाद्वैश्यस्य" इति ।
एतानि कामनिमित्तान्युपनयनानि । सर्वत्रोपनयेदित्यनुषज्यते । अत्रापि गर्भत इत्यनुवर्तते । अत्राऽऽङभिविधौ । मर्यादायामिति केचित् । अत्ययोऽतिक्रमः । स एवाऽऽत्ययस्तदभावोऽनात्ययः । यादृच्छिको दीर्घ आङो वा प्रयोगः । प्रकरणादुपनयनस्यानात्यय इति गम्यते । आपत्तौ षोडशवर्षपर्यन्तोऽप्युपनयनस्य काल इति तात्पर्यार्थः । अत ऊर्ध्वं तु धर्मसूत्रोक्तं प्रायश्चित्तं कर्तव्यम् । तच्च--"अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत्तत उपनयनमथोदकोपस्पर्शनमथाध्याप्यः" इति ।
यस्य यः सावित्र्याः कालस्तदतिक्रमे त्रैविद्यकं त्र्यवयवा विद्या त्रिविद्या तामधीयते ते त्रैविद्यास्तेषामिदं त्रैविद्यकम् । 'चरणाद्धर्माम्नाययोः' इति वुञ्प्रत्ययः । एवंभूतं ब्रह्मचर्यमग्निपरिचर्यामध्ययनं गुरुशुश्रूषामिति परिहाप्य सकलं ब्रह्मचर्यधर्मं चरेत् । कियन्तं कालम् । ऋतुम् ।