पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७३

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
१६९
संस्काररत्नमाला ।
( उपनयनाकरणे प्रायश्चित्तम् )
 

 पवमानः सोमो देवता यासां ताः पावमान्यः । ताश्च यदन्ति यच्च दूरक इत्येताः सप्त । यजुष्पवित्रेणाऽऽपो अस्मान्मातरः शुन्धत्वित्येतेन पूत एमीत्यन्तेनसामपवित्रेण कया नश्चित्र आभुवदितितृचे गीतेन वामदेव्येन साम्ना । आङ्गिरसेन ह सः शुचिषदित्येतेन मन्त्रेण । एतैरञ्जलिना शिरस्यपोऽवसिञ्चेत् । अपि वा समस्तव्याहृतीभिरेव सिञ्चनमिति व्याख्यातमुज्ज्वलाकृता । अथ यस्य पिता पितामह इत्युपक्रमे यस्येत्येकवचनमन्तेऽप्यथाध्याप्य इति । मध्ये तु ते ब्रह्महसंस्तुतास्तेषामभ्यागमनं तेषामिच्छतां प्रायश्चित्तमित्येतेषु बहुवचनम् । तत्रोपक्रमोपसंहारानुसारेण माणवकस्यैव प्रायश्चित्तमुपनयनमध्यापनं च । बहुवचनं तु तथाविधमाणवकबहुत्वापेक्षमित्यप्याह सः ।

 स्वस्य पितामहादीनां त्रयाणां चानुपनीतत्वे सर्वेषां श्मशानतुल्यत्वं पूर्ववदभ्यागमनादीनां वर्जनं प्रायश्चित्तं चोक्तं धर्मसूत्रे--

 "अथ यस्य पितामहादि नानुस्मर्यत उपनयनं ते श्मशानसंस्तुतास्तेषामभ्यागमनं विवाहमिति वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेत्तत उपनयनमथोदकोपस्पर्शनं पावमान्यादिभिः" इति ।

 यस्य माणवकस्य पितामहादि पितामहादारभ्य प्रपितामहस्तस्य पिता पितामहप्रपितामहाद्या अनुपनीताः स्वयं च यथाकालमनुपनीतस्ते तथाविधा माणवकाः श्मशानसंस्तुताः । तेन श्मशाने सर्वतः शम्याप्रासादित्यध्ययननिषेध एषामपि संनिधौ भवति । तेषामित्यादि स्पष्टार्थम् । पावमान्यादिभिरित्यनेन प्रतिपुरुषं संख्याय संवत्सरानित्येतदपि द्रष्टव्यमिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यच्च धर्मसूत्रे--

 "अथ गृहमेधोपदेशनं नाध्यापनं ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे तत ऊर्ध्वं प्रकृतिवत्" इति ।

 गृहमेधोपदेशनं गृह्यशास्त्रोपदेशनं गृहस्थधर्मोपदेशनं वा नाध्यापनं कृत्स्नस्य वेदस्य किंतु गृह्यमन्त्राणामेव । तत एवं कृतप्रायश्चित्ताद्गृहस्थीभूताद्यो निर्वर्तत उत्पद्यते तस्य संस्कार उपनयनाख्यः कर्तव्यः । कथं, यथा प्रथमेऽतिक्रम ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरित्वेत्यन्तम् । ततस्तु यो निर्वर्तते तस्य प्रकृतिवद्यथाप्राप्तमुपनयनं कर्तव्यमिति । यस्य पितुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तं धर्मशास्त्रैस्तूहितव्यमिति व्याख्यातमुज्ज्वलाकृता ।


२२