पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७६

पुटमेतत् सुपुष्टितम्
१७२
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
(उपनयने कालनिर्णयः, तिथयः )
 

 वृत्तशते--

"न जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीयदिने विदध्यात् ।
न ज्येष्ठमासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि" इति ॥

 जन्मधिष्ण्यं जन्मनक्षत्रम् ।

 [१]मुहूर्तचिन्तामणौ--

"जन्मर्क्षमासलग्नादौ व्रते विद्याधिको व्रती ।
आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे" ॥

 इति विप्रक्षत्रियादिपरत्वेनोपनयने विशेष उक्तः ।

 जन्ममास उक्तो गर्गेण--

"आरभ्य जन्मदिवसं यावत्रिंशद्दिनानि हि ।
जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसु" इति ॥

 एतस्माद्वचनाद्वर्षमप्यत्र सावनमानेनैव ग्राह्यमिति केचित् । जन्ममासमात्रमत्र ग्राह्यमेतद्वचनान्न वर्षं जन्ममासानुरोधेनात्र ग्राह्यमित्यन्ये । तत्र यद्युक्तं तद्ग्राह्यम् ।

 एतच्च वसन्तातिरिक्तकाले--

"वसन्तसमये दद्यादब्दे गर्भाष्टमेऽष्टमे ।
मेखलां जन्ममासेऽपि जन्मभे च तिथावपि" इति राजमार्तण्डोक्तेः ॥

अथ तिथयः ।

 ज्योतिर्निबन्धे नृसिंहः--

"तृतीया पञ्चमी षष्ठी द्वितीया वाऽपि सप्तमी ।
पक्षयोरुभयोश्चैव विशेषेण सुपूजिताः ॥
धर्मकामौ सिते पक्षे कृष्णे च प्रथमा तथा ।
कृष्णे त्रयोदशीं केचिदिच्छन्ति मुनयस्तथा ॥
द्वादश्येकादशी चैव मध्यमे च प्रचक्षते" इति ।

 धर्मो दशमी । कामस्त्रयोदशी । सिते शुक्ले पक्षे धर्मकामौ ग्राह्यौ । कृष्णे चेत्यत्र चकारः सिते पक्ष इत्यस्यानुकर्षणार्थः । तेन शुक्लप्रतिपदोऽपि ग्रहणम् । केचिदाचार्याः कृष्णपक्षान्तवर्तिनीं त्रयोदशीमप्युपनयने स्वीकुर्वन्ति । मध्यमे चेत्यत्र पक्षद्वय इति ज्ञेयम् ।


  1. घ. ङ. ज्योतिर्निबन्धे ।