पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८०

पुटमेतत् सुपुष्टितम्
१७६
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
(उपनयने चन्द्रताराबलाद्यभावे दानं गुरुबलावश्यकता च )
 

 संकटे चन्द्रताराबलाद्यभावेऽप्यधिकाराय दानमुक्तं ज्योतिर्निबन्धे--

"चन्द्रे च शङ्खं लवणं च वारे दिने विरुद्धे त्वथ तण्डुलांश्च ।
धान्यं च दद्यात्करणे तथा भे योगे विरुद्धे कनकं च देयम्" इति ।

 दिनं तिथिः । अत्र चकारा गोदानसमुच्चयार्थाः ।

"सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
आमं तु वितुषं प्रोक्तं स्विन्नमन्नमुदाहृतम्"

 इति वचनाद्धान्यशब्देन सतुषं व्रीह्याद्युच्यते ।

 नित्यकाले वटोर्गुरुबलालाभे शान्त्या तल्लाभः । अनित्यकाले नैवमित्याह नारदः--

"बालस्य बलहीनोऽपि शान्त्या जीवो बलप्रदः ।
यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम्" इति ।

 केषुचिद्दुष्टस्थानेषु स्थिते गुरौ शान्याऽपि नोपनयनाधिकार इत्याह वसिष्ठः--

"बन्धौ तृतीये रिपुराशिसंस्थे इच्छन्ति पूजां जनिगे व्ययस्थे ।
पुरातना अष्टमगेऽपि सूरौ शान्त्याऽपि नैवोपनयाधिकारः" इति ।

 बन्धुश्चतुर्थः । रिपुराशिः षष्ठः । जनिर्जन्मराशिः । व्ययो द्वादशराशिः ।

 अतिसंकट एतेष्वपि राशिषु पूजाहोमादेर्द्विगुणत्वादिवृद्धिकल्पनयोपनयनं कार्यमेव न तूक्तसंवत्सरातिक्रमः कार्यः ।

"तस्माद्ग्रहेभ्यः कालत्वाद्बली संवत्सरो मतः" इति वचनात् ।

 राशिविशेषस्थस्य गुरोरष्टमादिस्थानस्थितस्यापि नाधिकारप्रतिबन्धकत्वमित्याह भरद्वाजः--

"धनुर्मीनकुलीरस्थो जीवो जन्मान्त्यमृत्युगः ।
अतिसौख्यं वटोः कुर्याद्वसिष्ठवचनं यथा" इति ।

 कुलीरः कर्कः । स च गुरोरुच्चस्थानम् । यथाऽऽहुर्दैवज्ञाः--

"अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः" इति ।

 अजो मेषः । वृषभः प्रसिद्धो राशिः । मृगो मकरः । अङ्गना कन्या । कुलीरः कर्कः । झषो मीनः । वणिक्तुला । दिवाकरादीनां सप्तानां ग्रहाणां क्रमेण मेषादीनि सप्तोच्चस्थानानीत्यर्थः ।