पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८१

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम् ]
१७७
संस्काररत्नमाला ।
( उपनयने नक्षत्राणि )
 

 राजमार्तण्डः--

"व्रते जन्मत्रिकारिस्थो जीवोऽपीष्टोऽर्चनात्सकृत् ।
शुभोऽतिकाले तुर्याष्टव्ययस्थो द्विगुणार्चनात्" इति ॥

 नक्षत्राण्याह नारदः--

"श्रेष्ठान्यर्कत्रयान्त्येज्यचद्रादित्युत्तराणि च ।
विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने" इति ॥

 अर्कत्रयं हस्तचित्रास्वातयः । अन्त्यं रेवती । इज्यस्तिष्यः । चन्द्रो मृगशिरः । अदितिः पुनर्वसू । उत्तराशब्देनोत्तरात्रयम् । विष्णुत्रयं श्रवणधनिष्ठाशतभिषजः । अश्विनावश्विनी । मित्रोऽनूराधाः । अब्जयोनिभं रोहिणीनक्षत्रम् ।

 बृहस्पतिः--

"त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रे च वासवे ।
त्वाष्ट्रे सौम्यपुनर्वस्वोरुत्तमं ह्युपनायनम्" इति ॥

 मैत्रमनूराधाः । वासवं धनिष्ठाः । त्वाष्ट्रं चित्रा । सौम्यं मृगशिरः ।

 शार्ङ्गधरीये--

"श्रवणादित्यपौष्णादिद्वये हस्तत्रये मृगे ।
सर्वेषां मेखलाबन्धः शुभः प्रोक्तो द्विजन्मनाम्" इति ॥

वेदविशेषेण नक्षत्रविशेषविधिज्योतिर्निबन्धे--

"मूले हस्तत्रये सार्पे शैवे पूर्वात्रये तथा ।
ऋग्वेदाध्यायिनां शस्त मेखलाबन्धनं बुधैः ॥
पुष्ये पुनर्वसौ पौष्णे हस्ते मैत्रे शशाङ्कभे ।
ध्रुवेषु च प्रशस्तं स्याद्यजुषां मौञ्जिबन्धनम् ॥
पुष्पवासवहस्ताश्विशिवविष्णूत्तरात्रयम् ।
प्रशस्तं मेखलाबन्धे वटूनां सामवेदिनाम् ॥
मृगमैत्राश्विनीहस्तरेवत्यदितिवासवम् ।
अथर्ववेदिनां शस्तो भगणोऽयं व्रतार्पणे" इति ॥

 सार्पमा[१]श्रेषाः । शैवमार्द्राः । पौष्णं रेवती । मैत्रमनूराधाः । शशाङ्कभं मृगशिरः । ध्रुवाण्युत्तरात्रयं रोहिणी च । वासवं [२]ज्येष्ठा । अश्विनावश्विनी । शिव आर्द्रा । विष्णुः श्रवणम् । अदितिः पुनर्वसू ।


२३
 
  1. ख. ग. माश्लेषाः ।
  2. क. घ. धनिष्ठाः ।