पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८३

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम् ]
१७९
संस्काररत्नमाला ।
( उपनयने निमित्तविशेषेण निषेधः )
 

 एवं व्यवस्थितेऽपि शुभकाले निमित्तविशेषेण निषेधमाह गर्गः--

"ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे ।
व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित्" इति ।

 वार्ज्यानीति शेषः।

 संकटे तु चण्डेश्वरः--

"दाहे दिशां चैव धराप्रकम्पे वज्रप्रपाते च विदारणे च ।
केतौ तथोल्कांशुकणप्रपाते त्र्यहं न कुर्याद्व्रतमङ्गलानि" इति ॥

 धर्मप्रकाशे गर्गः--

"चन्द्रसूर्योपरागेषु त्र्यहं प्रागशुभं भवेत् ।
सप्ताहमशुभं पश्चात्स्मृतं ग्रहणसूतकम्" इति ॥

 एतच्चार्धग्रासविषयम् ।

"सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् ।
त्रिद्व्येकाङ्गुलतो ग्रासे दिनमेकं विवर्जयेत्" ॥

 इत्यङ्गिरसा विशेषस्योक्तेः । विस्तरतो दुष्टकालांस्तु विवाहप्रकरणे वक्ष्यामः । एतेषूक्तेषु कालेषु सूत्रोक्तो मुख्यः कालः ।

 स्मृत्युक्तस्तु संकटे--

"मुख्यो विधिः स्वशास्त्रोक्त इतरः स्यात्तु संकटे" इतिवचनात् ।

 लल्लः--"व्रत्येऽह्नि पूर्वसंध्यायां वारिदो यदि गर्जति । तद्दिने स्यादनध्यायो व्रतं तत्र विवर्जयेत्" इति ।

 व्रत्येऽह्न्युपनयनदिवसे वारिदो मेघः । तद्दिने व्रत्यदिन उपनयनदिन इति यावत् । व्रतमुपनयनम् । तत्रानध्याये ।

 अनेन वचनेन सर्वस्यैवोपनयनक्रियाकलापस्य निषेधे प्राप्ते नान्दीश्राद्धोत्तरं वेदारम्भरहितस्य सर्वस्योपनयनस्य कर्तव्यतोक्ता ज्योतिर्निबन्धे--

"नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः ।
मौञ्जीबन्धं तदा कुर्याद्वेदारम्भं न कारयेत्" इति ।

 देशभेदेनाऽऽर्द्रादिज्येष्ठान्तव्यतिरिक्तेषु मृगादिविशाखान्तव्यतिरिक्तेषु नक्षत्रेषु वा यद्वृष्टिगर्जनादिकं तदकालिकं तन्निमित्तोऽनध्यायोऽकालिकः । स च नान्दीश्राद्धोत्तरं चेत्तदा मौञ्जीबन्धमुपनयनं कुर्यात् । तत्रत्यं वेदारम्भमात्रं तु नैव कारयेदित्यर्थः । नान्दीश्राद्धे कृत इतिवचनान्नान्दीश्राद्धात्प्राग्वारिद