इति योगीश्वरवचस्तत्पितामहवचोनुरोधेन पितृव्याभावविषयमिति प्राञ्चः । भगिन्यादिविवाहविषयमिति नवीनाः ।
पित्राद्युक्ताधिकार्यभावे कर्तारमाह शौनकः--
"कुमारस्योपनयनं श्रुताभिजनवृत्तवान् । |
आचार्यं कुर्यादित्यधिकृत्य व्यासोऽपि--
"वेदैकनिष्ठं धर्मज्ञं कुलीनं श्रोत्रियं शुचिम् । |
वेदेषु वेदयोर्वेदे वैका निष्ठा यस्य । श्रोत्रियश्छन्दोध्यायी 'श्रोत्रियंश्छन्दोऽधीते' इति पाणिनिस्मरणात् ।
"धर्मेण वेदानामेकां शाखामधीत्य श्रोत्रियो भवति" । |
इति धर्मसूत्राच्च ।
स्वशाखाढ्यं स्वस्य या पारम्पर्यागता शाखा तयाऽऽढ्यम् । एतेन स्वशाखीय एवाऽऽचार्यो भवतीति सूचितम् । विप्रग्रहणं क्षत्रियवैश्यनिवृत्त्यर्थम् । शूद्रस्य निवृत्तिस्तु वेदाध्ययनाद्यभावादेव भवति । आचार्यशब्दार्थो धर्मसूत्रे-- 'यस्माद्धर्मानाचिनोति स आचार्यः' इति । आचिनोत्युपदिशति ।
बृहस्पतिः--
"आचिनोति च शास्त्राणि आचारे स्थापयत्यपि । |
याज्ञवल्क्यः--
"स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । |
यः सर्वा निषेकादिक्रियाः कृत्वाऽस्मै माणवकाय वेदं प्रयच्छत्यध्यापयति स गुरुः । एवं च पिता गुरुर्निषेकादिक्रियाकर्तृत्वात्तस्य ।
देवलेनान्येऽपि गुरव उक्ताः--
"उपाध्यायः पिता ज्येष्ठो भ्राता चाऽऽचार्य एव च । |