पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८६

पुटमेतत् सुपुष्टितम्
१८२
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( मातुर्गरीयस्त्वम्, अविद्वत्कतृकोपनयने दोषः )
 

वर्णज्येष्ठः पितृव्यश्च पुंस्यते गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥
पितामही स्वसा ज्येष्ठा धात्री च गुरवः स्त्रियः" इति ।

 अत्र पुंसवनादिसंस्कारक्रियाकरणाभावेऽपि पितुर्गुरुत्वम् । यस्तु केवलमुपनयनमात्रं कृत्वा वेदमध्यापयति स आचार्यः । आचार्यस्योपनेतृत्वं विद्वत्पित्रभावे द्रष्टव्यम् । यस्तु वेदैकदेशमात्रमध्यापयति न तूपनयनादिक्रियाः करोति स उपाध्यायः । यो याजयिता स ऋत्विगित्युदाहृतः । एते पूर्वोक्ता यथापूर्वं पूर्वं पूर्वमनतिक्रम्येति यथापूर्वं यथाक्रमं पूर्वः पूर्वो मान्यः पूजार्ह इत्यर्थः । एभ्य एतेभ्यो माता जननी गरीयसी श्रेष्ठा, गर्भधारणादिक्लेशसहनादित्यर्थः ।

 धर्मप्रकाशे पुराणे तु--

"द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥"

 इति पितुर्गरीयस्त्वमुक्तम् । []अत्रेच्छया विकल्पः । तुल्यकल्पत्वं वेति नवीनाः ।

 अविद्वत्कर्तृकोपनयने दोष उक्तो धर्मसूत्रे--

 "तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति विज्ञायते" इति ।

 वेदमजानानो यं माणवकमुपनयते । [स] माणवकोऽविद्वान्य उपनेता स च तमसः पापकर्मणः सकाशात्पापफलं दुःखाख्यं तमो मोहकरत्वात्प्रविशति प्राप्नोति । माणवको ह्यज्ञाननिरासार्थं विद्यार्थं संस्कारमपेक्षते स यदाऽविदुषा कृतस्त[]दा तेन विद्यां न प्राप्नोति । लोकनिन्दिनेन कर्मणोभावपि दुःखं च प्राप्नुत इति विज्ञायते श्रुतिरित्यर्थ इति व्याख्यातमुज्ज्वलाकृता । न चैतद्वचनेभ्यः कृत्स्नवेदाध्यायिन एवाऽऽचार्यत्वं न वेदैकदेशाध्यायिन इति वाच्यम् । गोमधुपर्कार्हो वेदाध्याय्याचार्य ऋत्विक्स्नातकः श्वशुरो राजा वा धर्मयुक्तश्चेतिधर्मसूत्रव्याख्यानावसरे-- 'अत एव ज्ञायते वेदैकदेशाध्यायिनावप्यृत्वेगाचार्यौ भवतः' इत्युज्ज्वलाकृताऽभिधानात् ।


  1. घ. द. अविद्व ।
  2. क. स्तदाऽतेन ।