पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१९

पुटमेतत् सुपुष्टितम्
[कुशाहरणकालः]
१५
संस्काररत्नमाला ।

कुशाहरणादिविधिः ।

  अथ संक्षेपेण कुशाहरणादिविधिः । तत्र शातातपः--

"समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन्पतत्यधः" इति ।

 आदिशब्देन दूर्वादि । उत्तरार्धादिदमपि ज्ञायते स्वस्याऽऽहरणाशक्तौ ब्राह्मणक्षत्रियवैश्याहृतैः कर्मकरणे दोषो नास्तीति । लक्षपुष्पार्चनादौ तु क्रयक्रीतनिषेधो न

"लक्षपुष्पार्चनादौ तु क्रयक्रीतमपीष्यते" इति मन्त्रकोशकारोक्तेः ।

 आदिशब्देन दूर्वादिलक्षपूजनं गृह्यते । कुशग्रहणकालमाहाङ्गिराः--

"अहन्यहनि कर्मार्थं कुशच्छेदः प्रशस्यते ।
कुशा धृता ये पूर्वत्र योग्याः स्युर्नोत्तरत्र ते" इति ।

पूर्वकर्मणि धृता ये कुशास्ते नोत्तरत्रानन्तरं क्रियमाणेषु कर्मसु योग्या इत्यर्थः ।

 जाबालिः--

"कुशान्काशांश्च पुष्पाणि गवार्थं च तृणादिकम् ।
निषिद्धे चापि गृह्णीयादमावास्याहनि द्विजः" इति ।

 अहन्यहनि दर्भच्छेदनासंभवे कालान्तरमुक्तं स्मृत्यन्तरे--

"मासि मास्याहृता दर्भास्तत्तन्मास्येव चोदिताः" इति ।

 अस्याप्यसंभवे विष्णुः--

"दर्शे श्रावणमासस्य समन्त्रोत्पाटिताः कुशाः ।
अयातयामास्ते दर्भा नियोज्याः स्युः पुनः पुनः" इति ।

 अयातयामा अपर्युषिताः । नियोज्या उपयुक्ता अप्यनिषेधेऽन्यत्र प्रयोज्या इत्यर्थः । यस्तु--

"अमायां नैव हिंस्यात्तु कुशांश्च समिधस्तथा ।
सर्वत्रावस्थिते सोमे हिंसायां ब्रह्महा भवेत् ॥
वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां ब्रह्महत्यायां युज्यते नात्र संशयः" ॥

 इति निषेधः स यस्मिन्मुहूर्तत्रये वनस्पतिषु सोमो वसति तत्परो न तु कृत्स्नामापर इति । योऽयं वनस्पतिगतसोमविशिष्टे काले छेदननिषेधः स