धर्मसूत्रे--'अपि वा सूत्रमेवोपवीतार्थे' इति । अपि वा सूत्रमेव सर्वेषामुपवीतकृत्ये भवति न वास एवेति नियम इत्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।
एतच्च कार्पासम् ।
"कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्" इति मनूक्तेः । |
कार्पासाभावे देवलः--
"कार्पासक्षौमगोवालशाणवल्कतृणादिकम् । |
क्षुमाऽतसी । वल्कं तरुत्वक् । यथासंभवत इत्यत्र सार्वविभक्तिकस्तसिः । यथासंभवमित्यर्थः ।
छान्दोग्यगृह्ये--
"यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव" इति । |
भृगुः--
"त्रिवृदूर्ध्ववृतं कुर्यात्तन्तुत्रयमधोवृतम् । |
ऊर्ध्ववृतप्रकारमाह संग्रहकारः--
"करेण दक्षिणेनोर्ध्वं गतेन त्रिगुणीकृतम् । |
ऊर्ध्वं गतेनोर्ध्वस्थितेन दक्षिणकरेण त्रिगुणीकृतं सद्यद्वलितं तदूर्ध्ववृतमित्यर्थः ।
देवलः--
"विधवारचितं सूत्रमनध्यायकृतं च यत् । |
अधो यातमित्यत्र कटेरिति शेषः ।
कात्यायनः--
"पृष्ठदेशे च नाभ्यां न धृतं यद्विन्दते कटिम् । |
नातिलम्बमित्यनेन कटितोऽधिकं निषिध्यते । नोच्छ्रितमित्यनेन कटितो न्यूनम् ।
वसिष्ठः--
"नाभेरूर्ध्वमनायुष्यमधो नाभेस्तपःक्षयः । |
देवलः--
"उपवीतं वटोरेकं द्वे तथेतरयोः स्मृते । |