इतरयोर्गृहस्थवानप्रस्थयोः । यतिस्त्रिदण्डी ।
स्मृत्यन्तरे--
"छेदे विनाशे वा स्नातः कन्यया निर्मितं शुभम् । |
विधवेत्यापत्कल्पः[१] ।
आह्निकप्रयोगपारिजाते कार्पासबीजाहरणादिविधिना कार्पासवृक्षलापनं तद्बीजेन यज्ञोपवीतकरणमुक्तं तत्तत एवावगन्तव्यम् ।
धारणे विशेषः श्रुतौ--
"दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीत संवीतं मानुषम्" इति ।
मनुः--
"उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः । |
उपवीतनिर्माणधारणविधी[२] बौधायनसूत्रे--
"अथातो यज्ञोपवीतक्रियां व्याख्यास्यामो ब्राह्मणेन तत्कन्यया वा कृतं सूत्रमानीय भूरिति प्रथमां षण्णवतिं मिनोति भुव इति द्वितीयां सुवरिति तृतीयां मीत्वा पलाशपत्रे संस्थाप्याऽऽपो हि ष्ठेति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन सावित्र्या चाभिषिच्य वामहस्ते कृत्वा त्रिः संताड्य भूरग्निं चेत्येतैस्त्रिभिर्वलितं कृत्वा भूर्भुवः स्वश्चन्द्रमसं चेत्येतेन ग्रन्थिं कृत्वोंकारमग्निं नागान्यमं पितॄन्प्रजापतिं वायुं सूर्यं विश्वान्देवान्नवतन्तुषु क्रमेण विन्यस्य संपूजयेद्देवस्य त्वेत्युपवीतमादायोद्वयं तमसस्परीत्यादित्याय दर्शयित्वा यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज इति धारयेदित्याह भगवान्बौधायनः" इति ।
एतावत्कर्तुमशक्तौ देवलः--
"ग्रामान्निष्क्रम्य संख्याय षण्णवत्यङ्गुलीषु तत् । |