अहतलक्षणमाह प्रचेताः--
"ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् । |
एतच्च वासः पुष्ये कर्तव्यमिति बौ[१]धायनगृह्ये दृष्टं तदस्माकमप्यविरुद्धम् ।
एतदनन्तरं द्विराचमनं कार्यम्--
"स्नात्वा पीत्वा क्षुते स्वापे भुक्त्वा रथ्याप्रसर्पणे । |
इति याज्ञवल्क्योक्तेः ।
अत्राऽऽचमनं पौराणमेव न तु वैदिकम्--
"न ह्यस्मिन्युज्यते कर्म किंचिदा मौञ्जिबन्धनात् । |
इति मनुनोपनयनोत्तरमेव वैदिककर्माधिकारस्योक्तत्वात् ।
उत्तरीयं धर्मसूत्रे--
"हारिणमैणेयं वा कृष्णं ब्राह्मणम्य कृष्णं चेदमुपस्तीर्णासनशायी स्याद्रौरवं राजन्यस्य वस्ताजिनं वैश्यस्याजिनं वैश्यस्याऽऽविकं सार्ववर्णिकम्" इति ।
हरिणो मृगस्तस्य विकारो हारिणं चर्म । एणी मृगी तस्या विकार ऐणेयं तच्च कृष्णं, कृष्णं चेद्बिभृयान्न केवलं हारिणं तदा तस्मिन्नास्तीर्णे नाऽऽसीत न च शयीत । रुरुर्बिन्दुमान्मृगस्तस्य विकारो रौरवम् । वस्तश्छागस्तस्याजिनम् । अविरूर्णायुर्मेषस्तस्य विकार आविकं तत्सर्वेषां वर्णानाम् । तस्य हारिणादिभिर्विकल्पः । कम्बलोऽप्याविक एव सर्वेषामित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।
प्रावरणपर्याप्तोत्तरीयार्थाजिनासंभवे शाकलः--
"अखण्डं वा त्रिखण्डं वाऽष्टाचत्वारिंशदङ्गुलम् । |
खण्डत्रयमानं स्मृत्यन्तरे--
"त्र्यङ्गुलं तु बहिर्लोम यद्वा स्याच्चतुरङ्गुलम् । |
- ↑ क.ख. शास्त्रान्तरे ।