देवताभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति सर्वत्रैवमनादिष्टदेवतेऽमुष्मै स्वाहेति यथादेवतमादिष्टदेवत एतेषामेवान्नाना समवदाय प्रागग्रेषु दर्भेषु बलिं करोति वास्तुपतये स्वाहेति त्रिवृताऽन्नेन ब्राह्मणान्परिविष्य पुण्याह स्वस्त्ययनमृद्धिमिति वाचयित्वा त्र्यहव्रतं चरति" इति ।
अस्यार्थः--उपस्थित आगत आनीतेऽन्ने ब्राह्मणपरिवेषणार्थमोदनस्यापूपानां सक्तूनां त्रयाणां समवदाय यावदर्थमवखण्ड्य मिश्रयित्वा पुनः सर्पिषा मिश्रीकृतस्य जुहोत्यग्नये स्वाहेत्येतैर्मन्त्रैः । उपस्थितवचनं बहिः संस्कृतस्य ग्रहणार्थम्, ओदनस्यापूपानां सक्तूनामित्येतावदुच्यमानेऽत्रैव संस्कारः प्राप्नुयात् । उपस्थितस्यौदनस्यापूपानां सक्तूनामित्येतावतैव सिद्धेऽन्नग्रहणं सव्यञ्जनार्थम् । तेन ज्ञायते, भोजनार्थमप्येतदुपस्थितं भवति न होमार्थमेवेति । अनेन ज्ञायते भोजनं हुतशेषस्यैव नान्यस्येति । ओदनादीनां द्वंद्वसमासन निर्देश ओदनादीनां कदाचित्सहितानामपि पात्रान्तरे ग्रहणं स्यात्तन्मा भूदित्येतदर्थमसमासेन निर्देशः । अपूपानामिति बहुवचनात्त्रिप्रभृतयोऽपूपा ग्राह्याः । सक्तुशब्दस्तु बहुवचनान्त एव पिष्टशब्दवत्, यथा सक्तुभिर्जुहोतीत्यादौ । ओदनादीन्यक्षारलवणानि ग्राह्याणि ।
"न क्षारलवणहामा विद्यते" |
इति धर्मसूत्रे निषेधात् । इतिशब्दोऽवधारणार्थः, ओदनस्यापूपानां सक्तूनामेव समवदायेति । तेन हविष्यभूतव्यञ्जनव्यावृत्तिः । ओदनादीनामेकदेशं समवदाय तेन सर्पिर्मिश्रितेन जुहोति । न त्रयाणां सर्वेषामेव मिश्रणम् । सर्पिःशब्दान्मिश्रणे संस्काररहितमेवाऽऽज्यम् । स्विष्टकृदाहुतिः पूर्वाहुतिभिरसंसक्तोत्तरार्धपूर्वार्धे होतव्या । अमुं त्रिवृदन्नहोममन्यत्राप्यतिदिशति-- 'सर्वत्रैवमनादिष्टदेवते' इति । सर्वत्र सर्वस्मिन्नपि कर्मण्यनादिष्टदेवते । नाऽऽदिष्टाऽनादिष्टा, अनादिष्टा देवता यत्र तदनादिष्टदेवतं तस्मिन्ननादिष्टदेवते, एतादृशेऽन्न उपस्थिते सत्येवंप्रकारेण होमः कर्तव्य इत्यर्थः । सर्वत्रेति वचनं सर्वेषु कर्मस्वेवान्न उपस्थितेऽयं होमः स्यान्न तु केवल उपस्थिते लौकिकेऽन्न इत्येतदर्थम् । अनादिष्टदेवत इति वचनं स्थालीपाकमासिकादिश्राद्धान्नव्यावृत्त्यर्थं, तस्याऽऽदिष्टदेवतत्वात् । काण्डव्रतादावन्नोपस्थितेरभावान्नैष[१] होमः । इयं चान्नोपस्थितिः कण्ठरवोक्तैव ग्राह्या, अन्यथा [२]श्राद्धान्तरसिद्धब्राह्मणभोजना