पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०४

पुटमेतत् सुपुष्टितम्
२००
[मण्डपदेवतापूजनप्रतिष्ठापनादि]
भट्टगोपीनाथदीक्षितविरचिता--
( वेदीकरणम् )
 

वा स्तम्भः । नैर्ऋत्यां खादिरो धात्रीवृक्षजो वा । वायव्यामौदुम्बरः शमीमयो वा । ई(ऐ)शान्यां बादर आश्मन्तको वा । एतैः स्तम्भर्मण्डपं दृढं कटादिनाऽऽच्छादितं निर्माय तोरणाद्यैः शोभयित्वा पूर्ववद्बद्धाश्चतस्रः शाखाः 'दधिक्राव्णो अकारिषं' 'या जाता ओषधयः' इति मन्त्राभ्यां चतुर्णां ब्राह्मणानां हस्तेषु दत्त्वाऽऽग्नेयस्तम्भे' 'गङ्गायै नमो गङ्गामावाहयामि' इत्यावाह्य संपूज्य सुदृढा स्थिरा भवेति प्रार्थयेत् । एवं नैऋत्ये(ते) गौरीं वायव्ये धरणीमैशाने लक्ष्मीम् । ततो विप्रहस्तेभ्यस्ताः शाखा आदायाऽऽग्नेयादिस्तम्भेषु ताः शाखा बद्ध्वा तत्राऽऽग्नेयशाखायां नन्दिनीं नैर्ऋत्य(त)शाखायां नलिनीं वायव्यशाखायां मैत्रामैशानीशाखायामुमामावाह्य प्रतिष्ठापयेत् । ततः स्वहस्तस्थामेव मुशलगर्भां शाखां मण्डपमध्यमवंशे बद्ध्वा तत्र नाम्नैव पशुवर्धिनीमावाह्य प्रतिष्ठापयेत् । ततस्ताः काण्डानुसमयेन पदार्थानुसमयेन वा पूजयेत् । तत्र समुद्रज्येष्ठा इत्यादयश्चत्वारो मन्त्राः क्रमेण नन्दिन्यादीनां चतसृणां देवतानां स्नानमन्त्राः । चत्वारोऽपि पशुवर्धिन्याः । आपो हि ष्ठेतिमन्त्रत्रयस्य सर्वत्र समुच्चयः । गन्धद्वारामिति गन्धस्य । दधिक्राव्ण इति दध्नः । काण्डात्काण्डादिति दूर्वायाः । दूर्वासमर्पणोत्तरं पुष्पाद्युपचारसमर्पणमिति विशेषः ।

 ततो मण्डपमध्य आग्नेय्यादिक्रमेण कलशस्थापनविधिना कुम्भचतुष्टयं स्थापयित्वा तत्त्रिसूत्र्या संवेष्ट्य तन्मध्ये देवकस्थापनं कुर्यात् । तच्चेत्थम् । अनुपहतपीठे वंशपात्रं निधाय तत्र देवकसंज्ञकच्छुरिकाशस्त्रगर्भायां शाखायां भगवतीमावाह्य प्रतिष्ठाप्याऽऽसनाद्याचमनीयान्तानुपचारान्समर्प्य चतसृभिः सुवासिनीभिर्नीराजनाभ्यङ्गोद्वर्तनोष्णोदकस्नानानि कारयित्वा देवकं वंशपात्रे संस्थाप्य वस्त्रादिभिरुपचारैः संपूज्य तस्मिन्नेव पीठे तत्कलशद्वयमेकं वा निधायाविघ्नसंज्ञकगणपतिं तत्राऽऽवाह्य प्रतिष्ठाप्य संपूजयेत् । तत एतत्समीपे मातृकावंशपात्रं निधाय ब्राह्मणभोजनादि सर्वं पूर्ववत्कुर्यात् ।

 ततस्तस्मिन्मण्डपे मध्ये षट्पदपरिमितायामविस्तारा चतुष्पदपरिमितायामविस्तारा वा हस्तोन्नता वेदिः कार्या । तत्र वेदिमध्यसूत्रपश्चिमसूत्रसंपाताद्दक्षिणत उत्तरतश्चैकैकहस्तपरिमिते देशे चिह्नं कृत्वा, ऋजुत्वार्थं दक्षिणोत्तरचिह्नयोः पुरतोऽप्येवं चिह्नद्वयं कृत्वा तत्र संपातद्वयदक्षिणस्थचिह्नयोः प्राक्सूत्रं दत्त्वा तत्सूत्रमनु द्वादशस्वङ्गुलेषु चिह्नं कुर्यादेवमुत्तरस्थचिह्नयोः ।

 एवं संसाध्य तत्र त्रिंशदङ्गुलोच्चां भित्तिं कुर्यात् । तस्याः पार्श्वयोरष्टावष्टौ सोपानानि कार्याणि । भित्तेरुपरि मध्यभागे कलशाकारं मृत्पिण्डं स्थापयेत् ।